पृष्ठम्:न्यायलीलावती.djvu/३६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
न्यायलीलावती


न्घात् । न च कालेऽप्येष प्रसङ्गः | तस्यासिद्धावाश्रया सिद्धेः । सिद्धौ वा नियतपरधर्मोप संक्रामकत्वेनैव [१] सिद्धेः । एकस्यैवोपाध्युपनयनसामर्थ्य च व्यापकान्तराणामन्यथासिद्धसन्निधीनामुपाधिभेदोपनयना हेतुत्वेऽव्यापकत्यस्य [२]साध्याव्यापकत्वेवानुपाधित्वात् । व्यापकानामपि तद्धेतुत्वाभावात् । दिगेवा-

न्यायलीलावती कण्ठाभरणम्

प्रतीतिं जनयेदित्येर्थः । एष प्रसङ्ग इति । अन्यतमधम्मणान्यत्र विशिष्टधीजनकत्वप्रसङ्ग इत्यर्थः । 'नियतः' प्रतिनियतः । 'परधर्म्म' स्तपनपरिस्पन्द इत्यर्थः । आकाशात्मनोः परधर्मोपनायकत्वेऽनिष्टप्रसङ्गमुक्त्वा पूर्वोत्तोपाधे: साध्याव्यापकत्वमध्याह - एकस्यैवेति । व्यापकानामिति ।

न्यायलीलावतीप्रकाशः

वदनुपाधित्वम् । ननु तथापि धर्मिकल्पनातो धर्मकल्पना लघीयसीति गगनात्मनोरेष सम्बन्धेनान्यत्र नियतपरनिष्ठधर्मविशिष्टधीजनकत्वस्वभावः कल्प्यताम् । किञ्च आकाशधर्मेष्वपि सूर्यक्रियावच्छेदोस्त्येव तत्राज संयोगाभावात् । कालस्य संयोगानुपनायकत्वे स्वरूपेणैव वाच्यः आकाशादिसंयोगेनैव वेति तद्वदन्यत्रापि भविष्यति । मैवम् । घटनिष्ठसूर्यक्रियाविशिष्टज्ञानं नाकाशात्मघटित सम्बन्धजन्यं घट निष्ट क्रियाविशिष्टज्ञानत्वात् घटश्चलतीतिविशिष्टज्ञानवत् । न च का लेऽप्येवं साध्यं सिद्ध्यसिद्धिव्याघातादित्यत्र तात्पर्यात् । सिद्धौ वेति ।

न्यायलीलावतीप्रकाश विवृतिः

कमानाभाव एवानेनोपलक्षितः । तत्तु तादृशस्याप्यनुपाधित्वे साध्यव्यापकताग्राहकमानाभाव एव बीजम् । अत्र तु साध्यव्यापकताग्राहको विपक्षबाधकस्त कर्कोऽस्तीत्याशङ्कते-- नन्विति। ननु सामान्यतः परधर्माऽनुपनायकत्वेन प्रमिते गगनादौ तद्विरुद्धस्वभाव कल्पनालाघवसहस्रेणाप्य शक्यैवेत्यरुचेराह --किञ्चेति । 'संयोगानुपनायकत्वे' विशिष्टप्रत्ययजनकसंयुक्तसयोग घटकत्वे । स्वरूपस्य रूपेणैव वाच्यः | क्रियावच्छेद इति शेषः । आकाशादीति । तथा च स्वाश्रयसंयोगिसमवाय एव सूर्यक्रियया सहाकाशादिधर्मस्य सम्बन्ध इत्यर्थः । नाकाशा-


  1. ०र्मोपमायकत्वेनैव सि० ।
  2. ०त्वेऽग्यापित्वस्य ।