पृष्ठम्:न्यायलीलावती.djvu/३६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


स्त्विति चेन्न, तस्या [एवा ] असिद्धे: । सिद्धौ वा तदहेतुत्वेनैव सिद्धेः । ततस्तपनस्पन्द भेदपिण्डसंसर्गोपनायकः पदार्थ इतरेभ्यो भिद्यते उपाधिभेदसंसर्गोपनायकत्वात् । न यदेवं न तदेवं यथा पृथिवी । एष तावच्चिरन्तनः पन्थाः । [इति] कालः ।


न्यायलीलावतीकण्ठाभरणम्

व्यापकान्तराणामित्यर्थः । 'उपाधिभेदः' तपनपरिरूपन्दः । एष तावदति । नूतनं त्वग्रे वक्ष्यत इति भावः ।

न्यायलीलावतीप्रकाशः

यद्यपि बाधस्तर्केऽनुकूल एव तथापि कालस्य नियतपरधर्मोपसंक्रामकवं धर्मिग्राहकमानसिद्धमित्येवात्र विवक्षितं न तु बाधोऽपि । किञ्च त्वत्पक्षेऽपि साध्याव्यापकत्वमेवाव्यापकत्वोपाधेरित्याह - एकस्यैवेति । एष तावदिति । अभिनवस्तु दिशि वक्ष्यत इति भावः ॥

न्यायलीलावती प्रकाशविवृतिः

त्मेति । अत्राकाशात्मनोः प्रत्येकं साध्यप्रवेशेन साध्यद्वयमतो न विशिष्टाभावेनार्थान्तरम् । न चात्मवटित साध्ये स्वात्मनः सन्निकर्षजन्यतया बाधः , नात्मघटित विशेषणसम्बन्धजन्यमिति साध्यशरी रत्वात् । आकाशात्मवैधर्म्ये सूर्यक्रियाविशिष्टज्ञाने व्यभिचार इति घटनिष्ठेति हेतौ विशेषणम् । न चाजन्यसंयोगाभावान्न तंत्र सा ध्याभावः, संयोगत्रयमादाय मूर्त्तद्वारा तत्सम्भवात् । न चैवमन्यत्रापि संयोगत्रयेणोपपत्तौ न कालकल्पनेति वाच्यम्, अन्यत्र लाघवेन संयोगद्वयकल्पनात्, अत्र त्वनन्यगत्या तद्वाधात् । वस्तुत आकाशादिधर्मे स्वाश्रयसंयुक्तसमवाय एव संवन्ध इत्यनन्यगत्या कल्पनीयमिति दिक् ।

 न चाप्रयोजकता अन्यस्यान्यधर्मस्योपनायकस्वभावतायाः पूर्वक्लृप्तस्वभावविरोधेना कल्पनादन्यथै कद्रव्यपरिशेषापत्तेरन्यतरस्यैव व्यक्तिभेदेन स्वभाव एवोपपत्तेः । आकाशस्य च शब्दादन्यत्रान्यथासिद्धतयाऽजनकत्वात् । आत्मनस्तु एकस्य तथात्वे विनिगमकाभावात्सर्वस्य च तथात्वे गौरवादनुपनायकत्वादिति दिक् । तथापीति । इदं च समाधि (सौ ?) कर्यादुक्तं वस्तुतस्तत्र तर्के बाघोऽनुगुणो