पृष्ठम्:न्यायलीलावती.djvu/३६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
न्यायलीलावती


 ननु दिशोऽरूपत्वे [१] नानध्यक्षत्वाल्लिङ्गाभावाच्च कथं सिद्धिः । [ननु] पूर्वापरादिदशप्रत्ययाः सन्ति लिङ्गं [तत्] कथं लिङ्गाभाव इति चेन्न, तेषां निरुपाधिदिगवलम्बनत्वे दिशां दशत्वप्रसङ्गे नवैवेति व्याघातात् [२] | सर्वत्र सर्वप्रत्ययप्रसङ्गा-


न्यायलीलावतीकण्ठाभरणम्

 ननु कालाख्य एव सम्बन्धोऽस्तु तस्य द्रव्यत्वे गुणादिकल्पनैव भूयसी स्यात् । अस्तु वा क्रियया स्वरूप सम्बन्ध एव किं कालकल्पना आकाशात्मनोरन्यतरस्य वा सम्बन्धघटकत्वमस्तु उक्तातिप्रसङ्गो नियतपरधर्म्मोपसंक्रामकत्वं स्वभावकल्पनयैव परास्तो धर्म्मिकल्पनातो धर्म्मकल्पनाया लघुत्वादिति चेत्, मैवम् । कालश्चेन्नि त्यसम्बन्धः स्यात्तदा समवायत्वापत्तिः क्रिया साक्षात्सम्बन्धेन विशिष्टप्रत्ययं यदि जनयेत्तदा घटादौ चलतीति प्रत्ययं कुर्य्यात् । न च तत्समवायाधीनश्चलतीति प्रत्ययः साक्षात्सम्बन्धाधीनत्वस्यैव तत्रापि तन्त्रत्वात् । न चाकाशात्मनोरेव तत्स्वाभाव्यकल्पनाऽस्तु एवं सति दिगादिविलयापत्तिः । तत्तद्रव्यकार्य्यस्यैकेनैव करणादाकाशात्मनोरध्ये कशेषापत्तिः ।

 दिश इति । दिक् न वहिरिन्द्रियग्राह्यद्रव्यं अरूपत्वादित्यर्थः । नवैवेति । न च दिक्त्वेनैकेनैव रूपेण दिशामस्तु विभाग इति वा च्यम्, अनुगतव्यञ्जकाभावेन दिक्त्वजा तेरेवासिद्धेरिति भावः । सर्व

न्यायलीलावतीप्रकाशः

 सर्वत्रेति । एकदिक्सम्बन्धे घटादौ गृह्यमाणे दिगन्तरसम्बन्धोऽपि

न्यायलीलावतीप्रकाशविवृतिः

यत्र तथा सति विपर्ययानुमानमविकलं तद्वैकल्यस्यानुगुण्यरूपत्वात्, यत्र तु तेन मूलभूतव्याप्तिरेव व्याहन्यते तत्रबाधो दोष एव । इह च तथाधर्मोपनायकत्वेन मूलशैथिल्यादिति सारम् । किञ्चेत्यादिग्रन्थस्तेन समाहितस्तत्रानन्यगत्या संयोगत्रयघटित सम्बन्धस्याकाशघटित सम्बन्धस्या कल्पनात्। आत्मधर्मावच्छेदार्थं तत्कल्पनाया उभयसमाधेयत्वात् वस्तुतस्तत्रानन्य गत्या स्वरूपं सम्बन्ध इह तु न


  1. ०ऽरूपित्वेना ० ।
  2. व्याघातः ।