पृष्ठम्:न्यायलीलावती.djvu/३६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९५
न्यायलीलावतीकण्ठाभरण-सचिवृतिप्रकाशांद्भासिता


च्च । उपाधिमुखपिण्डीकारे तु तेनैव प्रत्ययानामन्यथासिद्धत्वात् | उपहितदिगवलम्बत्वेन च लिङ्गान्तरस्यासन्चे प्रत्ययानामनु त्पादात् । उपाधीनां सुर्यादिगतत्वेन स्वरूपप्रत्यासत्तिशुन्यत्वेनाबच्छेदकान्तरस्वीकारे तत्सिद्धिरिति चेन्न, कालेनैव तदुपपत्तेः ।

न्यायलीलावतीकण्ठाभरणम्

त्रेति । सर्वासामपि विभुत्वेन साधारण्यादिति भावः । उपाधीति । तिक्ताद्यौषधभक्षणात् प्रागैक्षवादिपिण्डो मुखे प्रक्षेप्तव्यः मुखपिण्डस्तदुपाधिं सूर्य्योदयादि विषयीकृत्य एकैव दिक् पूर्वादिप्रत्ययं करोतीत्यभ्युपगम्यत इत्यर्थः । तेनैवेति । पूर्वादिप्रत्ययघटकोपाधिनैवेत्यर्थः । ननूपहिता दिगेवपूर्वादिप्रत्ययहतुरतो नोपाधिनाऽन्यथासिद्धिरित्यत आह -- उपहितेति । दिशोऽतीन्द्रियत्वान्नोपहिता दिक् पूर्वादिप्रत्ययालम्बनम्, अनुमानोपनीतापि नालम्बनम्, लिङ्गान्तराभावात् । पूर्वदि प्रत्ययेन दिगनुमानम्, अनुमिता चदिगालम्बनं चेत्तदाऽन्योऽन्याश्रय इत्यर्थः । ननु सूर्योदयादिरुपाधिः स चावच्छेदकतथा सम्बन्धमन्त रेण न भासत । सम्बन्धश्च दिग्घटित एवेति दिसिद्धिरित्याह--- उपाधी नामिति । 'तत्सिद्धि' दिसिद्धिः । कालेनैवेति । तस्य क्लृप्तत्वा-

न्यायलीलावतीप्रकाशः

गृह्येत सर्वासां दिशां व्यापकत्वादित्यर्थः । उपाधीति | उपाधिः सूर्योदयादिस्तस्य अमुखपिण्डस्यैव मुखपिण्डत्वकरणे यथा तिक्ताद्यौषधं मुखपिण्डं भक्षयित्वा भक्षयन्ति तथोपाधिं विषयीकृत्य एकां दिशं बुद्धयो विषयी कुर्वन्तीत्यभ्युपगम इत्यर्थः । तेनैवेति । अवश्याभ्युपगन्तव्योपाधिभिरेव पूर्वादिप्रतीत्युपपत्तेर्न दिक्कल्पनमित्यर्थः । उपहितेति । न तावद् दिक् प्रत्यक्षेण गृह्यते लिङ्गेन तद्ब्रहणे चान्योन्याश्रयः दिग्विषयतया एते प्रत्यया लिंङ्गं लिङ्गतया च तद्विषयत्वात् । न चान्यलिङ्गमस्तीत्यर्थः । उपाधीनामिति । यदपेक्षया सूर्योदयाचल संयोगसन्नि-

न्यायलीलावती प्रकाशविवृतिः

तथा उक्त क्रमेणोपपत्तेरिति दिक् । ननु प्रमातृभेदेन सर्वत्र सर्वप्रत्यय इष्टापत्तिरित्यत आह - एकेति । तथा च प्राची प्रत्ययकाल एव तस्यैव सर्वप्रत्ययप्रसङ्ग इत्यर्थः । दिग्विषयतयेति । अत्र तद्विषयत्वादित्यस्य त