पृष्ठम्:न्यायलीलावती.djvu/३६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
न्यायलीलावती


अत्रोच्यते । कालस्य क्रियामात्रोपनायकत्वान्न संयोगो-


न्यायलीलावतीकण्ठाभरणम्

दिति भावः । कालस्येति । सूर्थ्यपरिस्पन्दाल्पत्वादिविषयापेक्षाबुद्धि जन्यपरत्वापरत्वासमवायिकारणसंयोगाधिकरणत्वं क्रियामात्रोपनायकत्वम् । सूर्य्यक्रियाविशेषणकघटादिविशेष्यकज्ञानासाधारणकारणत्वं वा । संयुक्त संयोगाल्पीयस्त्वविषयांपेक्षाबुद्धिजन्यपरत्वापरत्वा समवायिकारणसंयोगाधिकरणत्वं संयोगोपनायकत्वम् । यद्यपि कालस्योभयोपनायकत्वमस्तु को दोषो न वा क्रियामात्रोपनायकत्वं धर्मिमग्राहकमानसिद्धं किन्तु क्रियोपनायकत्वमात्रं तथा

न्यायलीलावतीप्रकाशः

हितो यो देशः सा प्राची। यदपेक्षया च सूर्यास्ताचलसन्निहितो यो देशः सा प्रतीची । सन्निधानन्तु सूर्य संयोगाल्पीयस्त्वम् । तद्भूयस्त्वं च व्यवधानम् । तत्र सूर्यादिवर्त्तिसयोगानां घटादावुपनायकत्वेन दिशः सिद्धिरित्यर्थः । कालस्येति । सूर्यक्रियाल्पीयस्त्वादिविषयापेक्षावुद्धिजन्यपरत्वापरत्वासमवायिकारणसंयोगाधिकरणत्वं क्रियोपनायकत्वम् । संयुक्तसंयोगाल्पीयस्त्वादिविषयापेक्षाबुद्धिजन्यपरत्वापरत्वासमवायिकारणसंयोगाधिकरणत्वं च संयोगोपनायकत्वम् । यद्यपि धर्मिग्राहकमानेन क्रियोपनायकत्वं कालस्य विषयीकृतं न तु तन्मात्रोपनायकत्वम्, तथा चैकस्य कर्मणः संयोगविभागजनकत्ववत् कालस्य सूर्यक्रिया संयोगोपनायकत्वं सम्भवत्येव विरोधाभा-

न्यायलीलावतीप्रकाशविवृतिः

द्विषयक प्रतीतिजनकत्वादित्यर्थः । एवं च लिङ्गज्ञाने सति तद्विषयकप्र त्ययोत्पादस्तद्विषय प्रत्यय एव च लिङ्गमित्यन्योन्याश्रय इत्यर्थः सम्प द्यते । निरुपाधिदिगालम्बनत्वपक्षेऽपि यद्यप्येष दोषो लगति तथा पि तत्र दोषान्तरस्यैवोद्भटतया नेदमुपन्यस्तम् । सा प्राचीति । तं प्रतीति शेषः । निशावसानहेतु सूर्य संयोगवत्त्वमुदयाव ( च? ) लत्वम् । निशाक (?)रणीभूत सूर्यसंयोगवत्व मस्ताव (च?) लत्वम् तेन प्राचीत्वप्रतीचीत्वघटिततनिर्वचनेऽन्योन्याश्रय इति निरस्तम् । सूर्यक्रियेति ।