पृष्ठम्:न्यायलीलावती.djvu/३६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


पनायकत्वम् । नानापुरुषसाधारणप्रत्ययविषयवर्तमानायुपाध्युपनायकत्वं [१] च व्यापकं, न त्वसाधारणप्राच्यापाध्युपनायकत्वम् ।


न्यायलीलावतीकण्ठाभरणम्

पि संयोगोपनायकत्वे कालस्य कुङ्कुमादिसंयोगोपनायकत्वमपि स्यात् । एतद्विपक्षबाधकस ध्रीचीनानुमानादेव च क्रियामात्रोपनायकत्वमपि धर्मिग्राहकमानसिद्धम् । तथा च उभयोः प्रतिनियतस्वाभाव्यसिद्धौ नान्योन्यधर्म्मवत्वमन्योन्यस्येति भावः । वैधर्म्यान्तरमाह - नानापुरुषेति । यन्निरूपितं यद्वर्त्तमानं तन्निरूपितं तद्वर्त्तमा

न्यायलीलावतीप्रकाशः

वात्, तथापि सूर्यसंयोगो न कालोपनेयः संयोगत्वात् कुङ्कुमसंयोगवादेत्येतत्परोऽयं ग्रन्थः । नानापुरुषेति । यनिरुपितं यद्वर्त्तमानं तन्नि

न्यायलीलावतीप्रकाशविवृतिः

यद्यव्यल्पीयस्त्वभूयस्त्वेनापेक्षाबुद्धिविषयः अस्मदादिभिस्तद्भेदानवगमात् तथाप्यपेक्षाबुद्धिविशेषत्वमेवानेनोपलक्षितम् । वस्तुतः सामान्यतस्तद्वगमोऽस्मदादीनामस्त्येव परत्वाऽपरत्वयोरन्यतरान्तर्भावेन लक्षणद्वयम् । एवमग्रिमपरत्वापरत्वानधिकरणत्वे सतीति च प्रत्येकं लक्षणयोद्वयोर्विशषणमतो न पिण्डातिव्याप्तिरेवमत्रापि । इदं च सम्भवप्राचुर्यादुक्तम् । वस्तुतो विभुत्वे सति घटादिनिष्ठ सूर्यक्रियाविशिष्टप्रत्ययजनकसम्बन्धघटकत्वं क्रियामात्रोपनायक त्वमेव सूर्यसंयोगघटितसंयोगमात्रोपनायकत्वमित्येव मूलानुसारेण प्रतीयते । तथापीति । यद्यप्यत्राप्रयोजकत्वममूर्त्तानुपनेयत्वं चोपाधिस्तथापि सूर्यक्रियासम्बन्धरूपतया कालसिद्धिस्तदा साक्षात्सम्बन्धे चलतीति धीप्रसङ्गस्येव [२] विभुद्रव्यात्मक सम्बन्धपक्षेऽपि काक्ष्मीरवस्तुकुङ्कुमरागोपनायकत्वप्रसङ्गस्य बाधकस्य सत्वादनुमानप्रवृत्तिरेव न स्यादिति तन्निरासाय नियतधर्मोपनायकत्वेनैव कालसिद्धिर्वाच्येति तस्या एव विपक्षबाधकत्वात् । अत एवोपाधिरपि परास्तः । तदुक्तं मूलकता कालस्य क्रियामात्रेति । न हि सूर्यक्रियासंयोगयोरेकमुपनेयतावच्छेदकमस्ति अन्यतरत्व क्रियात्वाद्यपेक्षया गुरुत्वादिति भावः । यदिति । यदुपाधिस्वरूपं येन घटादि-


  1. ०यवर्त्तमानायुपनायकत्वं च ।
  2. ०स्येवाविमुद्र० ।