पृष्ठम्:न्यायलीलावती.djvu/३७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
न्यायलीलावती


असाधारणो ह्ययमुपाधिः । प्राच्या एव पुरुषान्तरं प्रति [१] प्रतीचीत्वात् । दिशस्तु सिद्धौ नियततपन संयोगोपसर्पकत्वेनैव [२] प्रसजस्य बाधात् । अन्यथाऽसिद्धेस्तत्सिद्धिः । दिगितरेभ्यो भिद्यते


न्यायलीलावतीकण्ठाभरणम्

नमेवेति साधारण्यम् । यद्वा यदेव यन्निरूपितं वर्त्तमानं तदन्यपुरुषनिरूपितमपि वर्त्तमानमेवेति साधारण्यम् । नानापुरुषे साधारणो यः प्रत्ययो वर्त्तमानत्वगोचरस्त दुचितोपाध्युपनायकत्वमित्यर्थः । या यनिरूपिता प्राची सापुरुषान्तरनिरूपिता प्रतीचीत्यसाधारण्यम् । यद्वा या यस्य प्राची सैव तस्य कदाचित प्रतीची त्यसाधारण्यम् । यदपेक्षया सूर्योदयाचलसन्निहितो यो देशः सा तदपेक्षया प्राची । यदपेक्षयाऽस्ताचलसन्निहितो यो देशः स तदपेक्षया प्रतीची। सन्निधानव्यवधाने च नियते इत्यसाधारण्यमिति भावः । ननु तर्हि दिगेव सूर्योपनायिकाव्यस्तु किं कालेनेत्यत आह - दिशास्त्विति । यद्वा यदि दिकू अन्यधर्म्ममन्यत्रोपनयेत् तदा कुङ्कुमसंयोगाद्यपि अन्यत्रोपनयेदिति प्रसङ्गस्य बाधादित्यर्थः । अन्यथेति । यदि न

न्यायलीलावतीप्रकाशः

रूपितं तद्वर्त्तमानमेवेति साधारण्यम् । या तु यन्त्रिरूपिता प्राची सा तन्निरूपिता प्रतीच्यपीत्यसाधारण्यमित्यर्थः । दिशास्त्विति । 'नियततपन संयोगः' उदयाऽस्तादिपर्वतसंयोगः । कालवद् दिश्याप संयोगानुप नायकत्वमित्यस्य प्रसङ्गस्य बाधादित्यर्थः । अन्यथेति । दिगसिद्धौ प्रसङ्गस्याश्रयासिंद्धेरित्यर्थः । 'तत्सिद्धिः' दिसिद्धिरित्यर्थः । त त्रैकैव दिगुपाधिभेदात्प्राच्यादिव्यवहारहेतुः । प्राचीप्रतीची व्यवहार. निदानमुपाधिर्निरुक्क एव । पूर्वाभिमुखावस्थितशरी रदक्षिणभागा. वच्छिन्नो देशो दक्षिणा । तथाविधशरीरवामभागावाच्छन्नो देशउदी

न्यायलीलावतीप्रकाशविवृतिः

ना निरूप्यमाणमेकस्य पुरुषस्य वर्त्तमानत्वं तेन निरूप्यमाणसर्वस्यापि पुरुषस्य वर्त्तमानत्वमेव । प्राचीत्वापाधिस्तु नैवं तेनैव घटेन निरूप्यमाणस्य तस्य पुरुषान्तरं प्रति प्राचीत्वोपाधि [३] रूप-


  1. पुरुषान्तरापेक्षया ।
  2. ० पसम्पर्कत्वेनैव ।
  3. मतीचीत्वापा० ।