पृष्ठम्:न्यायलीलावती.djvu/३७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


पूर्वापरादि [१] प्रत्ययविषयसंयोगोपनायकत्वात्, न यदेवं न


न्यायलीलावती कण्ठाभरणम्

दिक् सिद्धा तदा प्रसङ्गोऽयमाश्रयासिद्ध एवेति तत्सिद्धिः । दिक्सद्धिरित्यर्थः । यद्वा अन्यथा द्रव्यान्तरेण संयोगोपनयासिद्धेर्दिक सिद्धिरित्यर्थः । पूर्वापरादीति । आदिपदादुत्तरदक्षिणो-

न्यायलीलावतीप्रकाशः

ची। वामत्वदक्षिणत्वे च शरीरावयववृत्तिजाती। घटादौ[च]वामादिव्य वहारो गौणः । गुरुत्वासमवायिकारणकक्रियाजन्यसंयोगाश्रयो देशोऽधः । अदृष्टवदात्मसंयोगजाग्निक्रियाजन्यसंयोगाश्रयो देश ऊर्ध्वा [२] । यद्वा इन्द्रादिचतुर्दैवताकत्वेन प्राच्यादयो निर्वक्तव्याः । पूर्वादीति ।

न्यायलीलावतीप्रकाशविकृतिः

स्वादित्यर्थः । वामत्वेति । न च करत्वादिना सङ्करभयेन तन्नानात्वे कथमनुगतोत्तरत्वादिव्यवहार इति वाच्यम्, तत्तदुत्तरव्यवहारस्याव्यननुगतत्वात् । तत्तद्दक्षिणत्वाभावकूटसमानाधिकरणशरीरावयववृत्तिजातित्वेनानुगमाद्वा । एवमपरत्रापि । न च पश्चिमाभिमुखावस्थितदक्षिणभागावच्छिन्नत्वमपि तुल्यन्यायतया उत्तरत्वमित्यनु गमः | तत्तदति ( भि? ) मुखावस्थिततत्तत्पुरुषस्य तेन तेनोपाधिना उत्तरत्वव्यवहारात् । अनयैव रीत्या दक्षिणत्वेऽपि पूर्वपक्षस माधाने । अनुगतव्यवहारश्चोभयत्र देवतापरिग्रहनिबन्धन एव प्राचीत्वप्रतीचीत्वव्यवहारोऽध्येवम् । अन्यथा (या?) यदपेक्षयाऽस्ताचल सूर्यसंयोगव्यवहिता सा तदपेक्षया प्राची । एवमुदयाचलान्तर्भावेन प्रतीचीति तयोर्निर्वचनेऽननुगमापत्तेरिति दिक् । घटादौ चेति । प्रचीतिश्च तत्सादृश्यादानो (रो?) परूपति भावः । न च वैपरीत्यमेव कुतो न स्यादिति वाच्यम्, शरीरावयवे वामत्वदक्षिणत्वयार्झटिति प्रतीतेरेव विनिगमकत्वात् । गुरुत्वेति । अत्र तक्रियानाश्रयत्वे सतीत्यपि विशेषणम् । न च संयोगे तादृशक्रियाजन्यत्वमधः संयोगत्वेनैव ग्राह्य मित्यन्योन्याश्रय इति वाच्यम्, संयोगत्वेन क्रियाजन्यत्वग्रहे क्रियात्वावान्तरजात्यवच्छेदेन गुरुत्वालमवायिकारणकत्वग्रहे विशिष्ट वैशिष्टषधी सम्भवात् । एवमुत्तरत्रापि । अदृष्टेति । वायुक्रियाजन्यसं


  1. पूर्वादीति प्रकाशसम्मतः पाठः ।
  2. अर्द्ध: ।