पृष्ठम्:न्यायलीलावती.djvu/३७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
न्यायलीलावती


तदेवं, यथा पृथिवी |


न्यायलीलावतीकण्ठाभरणम्

र्द्धाधोव्यवहारकारणत्वसङ्ग्रहः । प्रत्येकं च एषां च व्यवहाराणां दिगितरभेदहेतुत्वमन्यथा तव वैयर्थ्यापत्तेः । तत्र सूर्योदयाचलसम्मुखावस्थितशरीरदक्षिणभागावच्छिन्नो देशो दक्षिणा । तथाविधशरीरवामभागावच्छिन्नो देश उदीची । वामत्वदक्षिणत्वे शरीरावयववृत्ती जाती इति नान्योन्याश्रयः । अत एव प्रत्यङ्मुखस्य शरीरस्य वामभागावच्छिन्नापि दिग् दक्षिणा दक्षिणभागावच्छिन्ना च उत्तरा । घटादौ वामदक्षिणव्यवहारो गौणः । पतनक्रियाजन्य संयोगाश्रयो देशोऽधः । स्वाभाविकवह्निक्रियाजन्यसंयोगाश्रयो दिगूर्द्धा । इन्द्रादितत्तद्देवताधिष्ठानत्वेन वा पूर्वादित्वं बाच्यम् । दिगितरेभ्यो भिद्यते संयुक्तसंयोगाल्पीयस्त्वभूयस्त्वविषयकापेक्षाबुद्धिजन्यपरत्वापरत्वासमवायिकारणसंयोगाश्रयविभुत्वादि(ति ? ) स्वयमूह्यम् ।

 ननु प्राच्यादिव्यवहारवैलक्षण्यमेक दिगसाध्यमतो दिगनेकत्वं प्रसक्तमेवं कालानेकत्वमित्याह-

न्याय लीलावतीप्रकाशविवृतिः


योगाश्रयतिर्यगादावप्तिव्याप्तिवारणायाग्निपदम् । अभिघातजाग्निक्रियामादाय तत्रैवातिव्याप्तिरिति प्रथमदलम् । यद्यपि अदृष्टवदात्मसंयोगस्य क्रियामात्रकारणतया तदतिव्याप्तिस्तदवस्था तथाप्यसमवायिकारणत्वमत्र विवक्षितमित्यदोषः । स्वाभाविकत्वमेव प्रथमदलार्थ इत्यप्याहुः । नन्वमीनोपाधयः प्रलयकालेऽसम्भवादिति चेत्, न, तदा तद्यवहाराभावात् । भावे वातीताना मेवोक्तोपाधीनामुपलक्षणतया तत्तदिक्प्रदेशव्यावर्त्तकत्वात् । नन्वनुगतव्यवहारो देवतापरिग्रहनिबन्धन एवेत्युक्तमेव तत् किमुक्तोपाधिभिरित्यपरितोषादाह — यद्वेति । ननु देवतापरिग्रहविशेष एव कथमवच्छेदकं विना ग्राह्य इति चेत, न, अननुगतनिरुक्तोपाध्यवच्छेदेनैव तद्रहात् । न चैवमुपाधिभिरेव दिग्व्यवहारोऽप्यस्त्विति वाच्यम्, अन (?) नुगत. सम्भवेऽननुगतानादरात् । तत्तदेवतापरिग्रहः पुरुष विशेषकालावशेषापेक्ष्य एव । कथमन्यथैकत्रैव पुरुषभेदकालभेदेनेन्द्रवरुणयोः पूजेत्येक देवेकस्यैव एकत्र प्राचप्रितीचीत्व व्यवहारप्रसङ्ग इति दुषणम