पृष्ठम्:न्यायलीलावती.djvu/३७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०१
स्थायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


 एवं सति पूर्वायुपाध्युपनायकत्वेनैव दिशो नियमादनेकदिक्कल्पनापत्तिः, तद्वदनेककालकल्पनापत्तिश्चेति चेत्, न, अनेकत्वे[ना]ऽपि क्रियोपाध्युपनायकः कालः । संयोगोपाध्युपनायिका च दिगिति न नवैवेति व्याघात : [१]

न्यायलीलावतीकण्ठाभरणम्

 एवं सतीति । एकदेशिमतेनाह -- अनेकत्वेनापीति । क्रियोपनायकत्व-

न्यायलीलावतीप्रकाशः

सूर्यपिण्डाभ्यां वैशिष्ट्यघटक संयोगाश्रयत्वे सति संयोगवैशिष्ट्यघटकसंयोगाश्रयत्वादित्यर्थः । तेन संयोगविशिष्टज्ञान हेतुत्वं संयोगोपनायकत्वं सूर्येऽप्यस्तीति व्यभिचार इति निरस्तम् । ननु संयोगोपनायकत्वे दिशोऽनेकत्वं स्यात् प्राच्युवाध्यवच्छेदवत् प्रतीच्युपाध्यवच्छेदस्यापि सम्भवादित्याह - एवं सतीति । तद्वोदति | दिशोऽनेकावच्छेदवशादनेकत्ववत् कालस्यापि चिरक्षिप्रायुपाधिवशाद ने कत्वमित्यर्थः । एकदेशिमतेनाह -- अनेकत्वेऽपीति । अनेकदिक्कालसिद्ध्यर्थमाह-

न्यायलीलावती प्रकाशविवृतिः

पास्तम् । संयोगोपनायकत्वं संयोगविशिष्टप्रत्ययजनकत्वमात्मन्येवव्यभिचारीति हेत्वर्थमाह - - सूर्येति । अत्र विशेष्यमात्रे सूर्यपिण्डाभ्यां व्यभिचार इति सुर्यपिण्डभ्यां सयोगित्वे सतीति विशेषणम् । तद्र्थश्च तदुभयप्रतियोगिक संयोगाश्रयत्वम् । न च तयोस्तथात्वं दिशस्तु विभुतया तथात्वम् । तावति कृते श्रात्ममनः संयोगमादायात्मनि व्यभिचारः विशेष्यभागस्थस्य वैशिष्ट्यघटकत्वस्य तद्धीजनकत्वार्थकादिति प्रथमदले वैशिष्ट्यघटकत्वं संयोगे विशेषणम् । न च पिण्डात्मसंयोगः सूर्यात्मसंयोगो वा वैशिष्टयघटकः सत्यन्तमात्रं च क्रिया वैशिष्ट्यघटकतामादाय कालेऽपि गतमत उत्तरप्रतीकम् । तत्रापि संयोगवैशिष्ट्यघटकत्वादित्युच्यमाने काले व्यभिचारस्तदवस्थ एव तस्य जगन्निमित्तकारणत्वादिति ताहरासंयोगाश्रयत्वपर्यन्तमुक्तम् । कालसंयोगश्च न तथेति नोक्तदोषः । अनेकेति । दिक्का


  1. ०पनायिका दिक् । न च नैवैवेति विरोध ।