आत्मनामानन्स्येऽपि आत्मत्वेनोपसंग्रहवद विरोधात् । परममहत्परिमाण सामान्यं वा [१]
विशेषगुणशून्यद्रव्याधिकरणानेकव्यत्तिवृत्ति परिमाणतारतम्य विश्रान्तिविषयजातित्वात् अणुत्ववत् । न
न्यायलीलावतीकण्ठाभरणम्
संयोगोपनायकत्वोपाधिद्वयाधीन एव दिनानात्वकालनानात्वपक्षेऽपि द्रव्यविभाग इत्यर्थः । परममहदिति । परममहतूपरिमाणवृत्तिजातिः पक्षः । विशेषगुणशून्यानि द्रव्यान्यधिकरणं यासां परिमाणव्यक्तीणां तद्धीतिय्वं साध्यम् । परिमाणतारतम्यविश्रान्तिसमानाधिकरणजा तित्वादिति हेतुः । तथा च परिमाणतारतम्यं परममहत्वे परमाणुत्वे च विश्राम्यति तत्कृता परममहत्वत्वं परमाणुत्वत्वं च जातिः पर्थ्यवस्यति । एतच्च यद्यपि दिक्कालयोरेकैकत्वेऽपि सम्भवति तथाप्यनेकपदं बहुपरं विलक्षणे पूर्वापरादिव्यवहारान्यथानुपपत्तिश्चानुकूलस्तर्क: । परममहत्त्वं विशेषगुणासमानाधिकरणनानापरिमाणवृत्तिजातिमत् तद्भिन्नविशेषगुणासमानाधिकरणनित्यपरिमाणवृत्तिजातियोगित्वादणुत्ववदित्यत्र वा तात्पर्य्यम् ।
न्यायलीलावतीप्रकाशः
परममहदिति । नन्वनेकव्यक्तिवृत्तित्वं यद्येकत्वानधिकरणवृत्तित्वं तदा सिद्धसाधनम् । अथाने कसङ्ख्याधिकरणवृत्तित्वं तदा बाधः । मैवम् । परममहत्त्वं विशेषगुणासमानाधिकरणपरिमाणवृत्तित्वे सति ताह-
न्यायलीलावतीप्रकाशविवृतिः
लयोः प्रत्येकमनेकत्वसिध्घर्थमित्यर्थः । सम्भूयानेकत्वस्य फलतः साधितत्वात् । परममहत्त्वमिति । अत्र भावप्रधानो निर्द्देश: । विशेषगुणासमानाधिकरणपरिमाणवृत्तीति साध्ये दिक्कालयोरेकसिद्ध्यार्थान्तरमतस्तादृशपरिमाणभिन्नेऽति परिमाणविशेषणम् । तथापि मनः- परिमाणभिन्नत्वमादायोक्तार्थान्तरतावस्थ्यमतः सत्यन्तम् | न च तथापि तद्दोषतादवस्थ्यं दिक्परिमाणवृत्तित्वेनैवोभयदलपर्याप्तरिति वाच्यम, सत्यन्तसाहित्येन स्वाश्रयीभूतविशेषगुणासमानाधिकरणपरिमाणभिन्नविशेषगुणासमानाधिकरणपारमाणवृत्तित्वस्य सा-
- ↑ ०णसाम्यं वा ।