पृष्ठम्:न्यायलीलावती.djvu/३७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


चानन्त्यकल्पनम् । उक्तोत्तरत्वात् । परममहत्परिमाणं द्रव्यचतुष्टयवृत्ति नित्यपरिमाणत्वादिति [तु] बाधितम् । परिमाणस्य प्रत्येकं


न्याय लीलावतीकण्ठाभरणम्

 उक्तोत्तरत्वादिति । आनन्त्येऽपि एकधर्म्मावच्छेदेनैव विभागोपपत्तेरित्यर्थ: । दि गनेकत्वे मानान्तरमाशङ्कय निराकरोति – परममहदिति । बाधितत्वमेवाह - परिमाणस्येति । न ह्येक परिमाणं चतुर्षु द्रव्येषु वर्त्तते । परिमाणमेलकस्य तु परिमाणवृत्तित्तान्न द्रव्यवृत्तित्वम् । यद्यप्याकाशं विशेषगुणशून्यमात्रवृत्तित्रित्वव्यापकविम्वविभुवृत्तिव्यतिरिक्तचतुष्टवत् स्पर्शशुन्यद्रव्यत्वादिस्यत्र तात् पर्य्ये बाधो न भवति । तथाप्येकदेशिनोऽनभिसंहितमेतत् । पूर्वा-

न्यायलीलावतीप्रकाशः

शपरिमाणभिन्नविशेषगुणासमानाधिकरणपरिमाणवृत्ति नित्यपरिमाणमात्रवृत्तिजातित्वात् अणुत्ववदिति विवक्षितत्वात् । उक्तोत्तरत्वा-

न्यायलीलावतीप्रकाशविवृतिः

ध्यस्य लाभात् । न च तथाप्येकैकदिक्कालसिद्ध्यार्थातरं ताडशबहुप. रिमाणवृत्तित्वे च साध्येऽन्यतरानेकत्वसिद्ध्यार्थान्तरं सत्यन्तवैयर्थ्यापत्तिश्चेति वाच्यम्, स्वाश्रयीभूतविशेषगुणासमानाधिकरणदिगवृत्तिपरिमाणभिन्नविशेषगुणासमानाधिकरणादिगवृत्तिपरिमाणवृत्तित्वे सति स्वाश्रर्याभूतकालावृत्तिविशेषगुणासमानाधिकरणपरिमाणभिन्नविशेषगुणासमानाधिकरणकालावृत्तिपरिमाणवृत्तित्वस्य साध्यत्वात् । दिगादेः सिद्धावेव तदनेकत्वसिद्ध्यर्थमस्यानुमानस्यावतार इति न दिगाद्यसिद्धिनिबन्धनसाध्या प्रसिद्धिशङ्केति । वस्तुतः सत्य न्ते विशेषगुणपदं विभुविशेषगुणपदं परिमाणपदं च द्रव्यविभाजकोपाधिसमानाधिकरणनानापरिमाणपरम् | तादृशपदं च सत्यन्तप्रविष्टोपाधिसमानाधिकरणपरम्।| अग्रिमपरिमाणपदं च नानापरि माणपरम् । एवं च विभुविशेषगुणासमानाधिकरणै कद्रव्यविभाजकोपाधिसमानाधिकरणनानापरिमाणवृत्तित्वे सति तदुपाधिकरणविशेषगुणासमानाधिकरणनानापरिमाणवृत्तित्वं साध्यम् । विभुपदप्रक्षेपश्च दृष्टान्तलाभायेति सङ्क्षेपः ।

 नित्येति । जन्यमहत्त्वमात्रवृत्तिजातौ व्यभिचार इति नित्यपदम् ।