पृष्ठम्:न्यायलीलावती.djvu/३७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


तस्याणुत्वात् । न च कालकृतपरत्ववैलक्षण्यादस्य दिक्कृतत्वम् । कालजन्यत्वेन तद्वैलक्षण्यसिद्धे: [१] । स्वरूपवैलक्षण्यस्य [च]


न्यायलीलावतीकण्ठाभरणम्

तस्थाणुत्वादिति । तथा च मनासि बाध एव, कुतः सिद्धसाधनमिति भावः। आनन्त्यापत्तिपराघाताहिक्सिद्धिरेव नास्तीति येन पूर्वपक्षः कृतः स दिसिद्धौ सिद्धान्तिनो मतमाशङ्कय निराकरोति- न चेति । अस्येति । संयुक्त संयोगभूयस्त्वगोचरापेक्षाबुद्धिजन्यपरत्वस्येत्यर्थः । तथा च दिक् कालभिन्ना विलक्षणपरत्वजनकत्वादिति भावः । अत्राह --- कालेति । कालाजन्यत्वेन यदि वैलक्षण्यमभिमतं तदा स्वरूपासिद्धिः दिक्कुतत्वनाभिमतस्यापि परत्वस्य कालजन्यत्वात् कालस्य सर्वोत्पत्तिमत्कारणत्वात् । अथ दिक्कृतत्वमेव वैलक्षण्यं तदान्योऽन्याश्रय इति भावः । ननु दिशः कालभेदसाधने परत्वयोः स्वरूपभेद एव हेतुरत आह-स्वरूपेति । एवं सति कालकृतानामपि

न्यायलीलावतीप्रकाशः

ति । कस्यचिन्मतमाशङ्कय निराकरोति-न चेति । अस्येति । संयुक्तसंयोगभूयस्त्वगोचरापेक्षाबुद्धिजन्यदिक्कृतपरत्वस्येत्यर्थः । वैलक्षण्यासिद्धेरिति । कालस्य तत्रापि कारणत्वादित्यर्थः । स्वरूपवैलक्षण्यस्येति ।

न्यायलीलावती प्रकाशविवृतिः

धेन तत्र चित्रस्पर्शस्वीकारात् । केचित्तु नित्यं सर्वदा स्पर्शशून्यद्रव्यत्वादित्यर्थः । तथा च स्पर्शात्यन्ताभावद्रव्यत्वादित्यर्थो लभ्यते । तेन स्पर्शप्रागभाववत्यनुत्पन्नचतुष्ट्वे न व्यभिचारः । न च द्रव्ये क्षणिकताया अस्वीकारादुत्पत्त्युत्तरक्षणे उत्तरापेक्षावुध्घा चतुष्ट्वापादानान्न तत्र व्यभिचार इति वाच्यम्, असमवायिकारणत्वैकत्वस्य द्वितीयक्षणे उत्पत्त्या तत्क्षणे चतुष्ट्वानुत्पत्तेस्तृतीयक्षणे च द्रव्यनाशस्यापि सम्भवादित्याहुः । अत्र समवायाधिकरणैकत्वेनैव हेतुत्वं लाघवान्न तु सकलस्वाश्रयवृत्त्येकत्वेनेति व्यत्तयन्तरावृत्येकत्वादेव तत्र चतुष्ट्वोत्पत्तिद्वितीयक्षणे भवतीति दूषणमाहुः । तश्चिन्त्यम् । तन्निष्ठचतुष्ट्व प्रति तदेकत्वेन कारणत्वादन्यथा तत्र चतुष्ट्वोत्पत्तो नियामकाभाचादिति दिक् । कस्यचिदिति । कालकृतपरत्वविलक्षणपरत्वकारणत्वेन


  1. कालाजन्यत्वेन वैलक्षण्यासिद्धेः ।