पृष्ठम्:न्यायलीलावती.djvu/३८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
न्यायलीलावती


कालकृतेना [१] परत्वेन व्यभिचारात् । विलक्षणदेशकालव्यवहारवलेन दिक्कालभेदकल्पनेति [तु] न वाच्यम् । व्यवहारविष यभेदे प्रत्ययं [२] विना विचित्रव्यवहारस्यैवानुपपत्तेः । अज्ञाते [३] व्यवहाराभावात् । व्यवहारविषयभेद [परि] ज्ञानं च न प्रत्यक्षात् तयोरतीन्द्रियत्वात् । नानुमानात् । तेषां दूषितत्वात् । न व्यवहारादितरेतराश्रयात् । तत्परिज्ञाने हि तद्यवहर्तव्यता [४] तद्यवहारे च तत्परिज्ञानमिति । अत्रोच्यते [५] । विवादाध्यासि-


न्यायलीलावतीकण्ठाभरणम्

परत्वानां स्वरूपवैलक्षण्यसत्वाद् व्यभिचार इत्यर्थः । अपरत्वेनेत्युपलक्षणपरं परत्वान्तरेणापीत्यर्थ: । ननु सर्वसाधारणदेशकालव्यवहारबलदेव कालदिशोर्भेदसिद्धिरित्याशङ्कय निराकरोति — विलक्षणेति । व्यवहारो हि शब्दप्रयोगस्तस्य च वैलक्षण्यं विलक्षणावषयज्ञानाधीनं तदेव च न सिद्धमित्याह-व्यवहारेति ।

 ननु व्यवहर्त्तव्यभेदज्ञानाधीन एव व्यवहारभेदः स्यादित्यत आह—तेषामिति । पूर्वापरादिप्रत्ययानां दूषितत्वादुपाघिनैवान्यथासिद्धेरित्यादिनेत्यर्थः । ननु व्यवहारभेदाक्षिप्तेनैव व्यवहर्त्तव्यभेदज्ञानं स्यादित्यत आह -न व्यवहारेति । 'अत्रोच्यते' एवं सत्यनेक दिक्कल्पनापतिरिति यत् पूर्वपक्षितं तत्र उच्यते इत्यर्थः । क्वचित् पाठः – अथ वेति । दिगानन्त्यं यदेकदेशिनोक्तं तत्रापरितोषात पक्षान्तरमिदमुच्यत इत्यर्थः । विवादाध्यासितानीति दृष्टान्तलाभार्थ तव्घावर्त्तनाय अन्यथाऽ-

न्यायलीलावतीप्रकाश:

व्यक्तिभेदरूपस्येत्यर्थः । अपरत्वेनेत्युपलक्षणं परत्वान्तरेणापीति द्रष्टव्यम् । तेषामिति । परत्वापरत्वचिरक्षिप्रप्रत्ययादीनां लिङ्गानामित्यर्थः । स्वाभिमतं दिगनुमानमाह--अथ वेति । एकदेश्यनुमानापेक्षया न्यायलीलावतीप्रकाशविवृतिः दिश: सिद्धिरिति मतं तन्निराकरणेनच मदुक्तमेवैतत्साधनं सम्यक्, न त्विदमित्युक्तम् । उपलक्षणमिति । एतञ्च स्वरूपवैलक्षण्यपदस्य व्यक्ति-


  1. ०ण्यस्याकालकृतेनाप० ।
  2. व्यभेदप्रत्ययं वि० ।
  3. अज्ञातव्यव० ।
  4. तयोर्व्यव० ।
  5. अथ वा ।