पृष्ठम्:न्यायलीलावती.djvu/३८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०७
न्यांयलीलावतीकण्ठाभरण- सविवृति प्रकाशोद्भासिता


तानि कर्माणि [१] निरवयत्रेन्द्रियग्राह्यविशेषगुणवज्जातीय [२] वर्जितसाधारणद्रव्याधिकरणजन्यानि कार्यत्वात् अभिन्नतन्तुहेतुकद्रव्यगुणकर्मवत् । न च शब्दसुखादिभिर्व्यभिचारः । एवम्भूताधारजन्यत्वेन तेषामपि पक्षत्वात् [३] । विशेषगुणाधार [४] जन्य-


न्यायलीलावतीकण्ठाभरणम्

नुपसंहारितापत्तेः । निरवयवेन्द्रिये श्रोत्रमनसी तद्ग्राह्यो यो विशेषगुणजातीय: शब्दज्ञानादिस्तद्वर्जितं तच्छ्रन्यं यत् साधारणं द्रव्यं तदेवाधिकरणं तजन्यानीत्यर्थः । अत्र दृष्टान्तः साध्यविकलो माभूदत उक्तं निरवयवेन्द्रियेति । वर्ज्जितपर्थ्यन्तविशेषणमहिम्ना आका शात्मभ्यामन्यथासिद्धिनिरास: । जातीयपदमीश्वरात्मनोऽन्यथासिद्विवारणाय तस्यापि मनोग्राह्यजातीयगुणवत्त्वात् । असमचायिका रणैरन्यथासिद्धिवारणाय साधारणेति । द्रव्यपदं च द्रव्यत्वेन दिकसिद्ध्यर्थम् । ननु निरवयवेन्द्रियग्राह्यविशेषगुणवदात्माकाशाभ्यां जन्येषु शब्दसुखादिषु व्यभिचार इत्यत आह - न चेति । तेषामंपि दिग्जन्यत्वात् साध्यसत्त्वात् । शब्दसुखादीनां विशेषगुणवदाधारजन्यतथा तद्रहिताधारजन्यत्वं बाधितमिति शङ्कते — विशेषगुणवदिति । निर वयवेन्द्रियग्राह्यविशेषगुणवदित्यर्थः । उभयजन्यत्वसम्भवान्न बाध इति

न्यायलीलावतीप्रकाशः

विकल्पः, अत एवात्रोच्यत इति क्वचित्पाठः । पूर्वोकानुमाने दिगनेकत्वसाधकेऽपरितोषादिदानीं दिशि प्रमाणमुच्यत इत्यर्थात् । विवादाध्यासितानि दृष्टान्तेतरद्रव्यगुणकर्माणीत्यर्थः । निरषयवेत्यादिना आकाशात्मव्यवच्छेदः । जातीयपदमीश्वरेणान्यथासिद्धिवारणार्थम् । ननु साधारण्यं सकलकार्यापेक्षया वा पक्षापेक्षया वा उभयथापि दृष्टान्तासिर्द्धि | मैवम् । साधारणपदेन पक्षधर्म ताबलाद्विवादाध्या-

न्यायलीलावतीप्रकाशविवृतिः

भेदार्थकत्वे । यदि च वैजात्यं तदर्थस्तदा यथाश्रुतमेव सुस्थम् । अपरितोषादिति । तद्वीजं तु गौरवमेव अनेकत्वबुद्धेरुपाधिभिरेवोपपत्तेः । साधारणपदेनेति । साधारणशब्दस्य स्वशब्दादिवत् सम्बन्धिशव्दतया


  1. कार्य्याणि ।
  2. ०णजातोय ।
  3. प्रत्यक्षत्वाव ।
  4. गुणवदाधारज०।