पृष्ठम्:न्यायलीलावती.djvu/३८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
न्यायलीलावती


त्वेन न तद्रहिताधारजन्यतेति चेन्न, घटादावसर्वज्ञकर्तृपूर्वकत्वेन [१] सर्वज्ञकर्तृपूर्वकतावदविरोधात् । अत एवात्रात्मनि ज्ञा- नम्, इह नीले नीलत्वम् इह कर्मणि चलनत्वम् इह तमसि [२] खद्योत इत्यभिन्नाकारमाधारत्वमवभासते । असम्बद्धं कथमिदमवच्छेदकमिति चेन्न, समवायवत्स्वभावप्रत्यासत्तिबलेनैवोपपत्तेः ।


न्यायलीलावतीकण्ठाभरणम्

दृष्टान्तेन समर्थयति-घटादाविति । आधारस्य साधारणत्वं दर्शयितु माह -- अत एवेति । न च कालेनान्यथासिद्धिः, इह काले संयोग इति प्रतीत्या कालाधारकस्यापि देशाधारकत्वेन प्रतीतः । इहेदानीं जातो नष्टश्चेति प्रतीतिबलात् कालभिन्नाधिकरणसिद्धे: देशोऽपि दिग्विशिष्टो भूतलादिस्तदाधारता च दिगाघारतामादायैवेति भावः । नन्विहात्मनि ज्ञानमित्यादावात्मासम्बद्धाया दिशः कथमवेच्छेदकत्वमित्याह - असम्बद्धमिति । प्रतीतिबलात् स्वभावसम्बन्ध एव कल्पनीय इत्याह -समवायवदिति । तथा चेहात्मनीत्यादौ सर्वत्र दिग्विशिष्टमेवेदंपदार्थः । इहेदानीं घट इतिप्रत्यक्षविषयतया दिशः प्रत्यक्षता-

न्यायलीलावतप्रकाशः

सितकार्यप्रतियोगिकस्यैकस्य कारणस्य सिद्धेः । न च कालेन सिद्वसाधनं इहात्मनि ज्ञानमितिवदिह देशे संयोग इति कालभिन्नत्वेनैवाधारस्य दिशः प्रतीतेः । अत एवेति । न च साक्षात्कारविषयत्व- न्यायलीलावती प्रकाशविवृतिः समभिव्याहृतपरतया पक्षधर्मताबलादभिमतविशेषसिद्धिरित्यर्थः । यद्यप्यनुमाने शब्दमहिमा न प्रयोजकस्तथापि प्रतिज्ञायामाकाङ्काबललभ्योऽर्थोऽन्वयिनि प्रतीत्यनुपपत्त्या सिघ्घतीति प्रदर्शनार्थ तदुपन्यास इति भावः । वस्तुतः साधारणपदत्यागेऽपि लाघवादेबैका दिक् सिद्ध्यति । ग्रन्थोऽपि तादृशसिद्धे: साधारणपदेनोक्तत्वादित्येवं योज (न?) या पक्षधर्मताबललभ्यसाध्यप्रदर्शनमेव मूले साधारणपदेन कृतमित्यर्थको द्रष्टव्यः । एवं च दृष्टान्तेऽभिन्न पदमविवक्षितार्थमिति ध्येयम् । इहेति । तथा च कालभिन्नत्वमधिकरणे विशे-


  1. पूर्वकत्वे स० ।
  2. नभसि ।