पृष्ठम्:न्यायलीलावती.djvu/३८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


 नन्वेवं सति प्रत्यक्षादिकं स्यात् । न स्यात्, अनुमानपारतन्त्र्येण तत्प्रवृत्ते :[१] । व्यवसाय[स्य]पारतन्त्र्येण परमाण्वादिषु


न्यायलीलावतीकण्ठाभरणम्

पत्तिरित्याह – नन्विति । अनुमानेति । विशिष्टप्रत्यक्षेऽपि विशेषज्ञानमात्रं तन्त्रं तच्चानुमानिकमेवेत्यर्थः । अनुमेयस्यापि प्रत्यक्षविषयतायां दृष्टान्तमाह--व्यवसायस्येति । परमाणुमहं जानामीति साक्षातका रेऽनुमित

न्यायलीलावतीप्रकाशः

मिदंशब्दार्थो दिक् चाप्रत्यक्षेतीहेत्यत्र न दिशो भानमिति वाच्यम्, साक्षात्कारविषयत्वस्येदंशब्द प्रयोगाहेतुत्वात् । अन्यथाऽयं साक्षात्कृत इत्यत्र पौनरुक्त्यापत्तेः विशिष्टाधारतायां चावच्छेदकस्याप्याधारतेति दिशोऽव्याधारतासिद्धि: । यद्वा इहेत्यनुगतधीकारणतया दिशः सिद्धिः । न चात्मनैवानुगतेन सा स्याद् दिग्विशिष्टस्येदमर्थत्वात् इहात्मनीत्यपि प्रतीतेः । कर्मणि चलनत्वमिति कार्यदृष्टान्तेनाकार्येऽप्यधिकरणमेकं साध्यमित्यभिप्रेत्याकार्यमप्युदाहृतम् । अनुमानेति । विशिष्टज्ञाने विशेषणज्ञानं कारणं तच्चान्यकरणजज्ञानसाधारणमित्यर्थः । व्यवसायेति । परमाणुमहं जानामीत्यनुव्यवसाये

न्यायलीलावतीप्रकाशविवृतिः

षणं साध्ये कर्त्तव्यं विपक्षबाधिका चेयं प्रतीतिरिति भावः । न न्विहेति प्रतीत्या दिग्विशिष्ठसमवायादेराधारता विषयीक्रियते न तु दिश इत्यत आह - विशिष्टेति । विशेषणतायां बाधकं सत्येवोपलक्षणत्वस्वीकारादिति भावः । प्रतीतिविषयतया दिशं साधयित्वा तत्कारणतया तां साधयति—यद्वेति । इहात्मनीति । तथा च त्वन्मते पौनरुक्त्यं स्यादिति भावः । यद्यपि इह दिशीत्यपि प्रतीतेस्तुल्यमिदं दूषणं दिश्यामस्तथापि इहेत्यनेन साक्षादुपाधीनामेवाधारता प्रतीयते तदाधारता च परम्परासम्बन्धनिर्बाह्येति तद्धटकत्वेन दिशोऽपि तत्र चात्मनो घटकत्वेऽतिप्रसङ्गो दिशस्तु धर्मिग्राहकमानेन नियताधिकरणतानियामकतयैव सिद्धेर्न स प्रसङ्ग इत्यत्र तात्पर्यम् । अकार्यमपीति । यद्यपीह नीले नीलत्वमित्यत्रैवेदं वक्तुं युज्यते तथापि तत्र नीलपदस्थ द्रव्यपरतया नीलत्वपदस्य च तद्धर्मनीलरूपतया-


  1. प्रत्यक्षप्रवृत्तेः ।