पृष्ठम्:न्यायलीलावती.djvu/३८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
न्यायलीलावती


मनःप्रवृत्तिवत् घाणजसुरभिज्ञानपारतन्त्र्येण त्वगिन्द्रियस्य गन्धे प्रवृत्तिवत् [वा] । अप्रतिसंहितानुमानानामपि इहेतिमतिदर्शनान्नैवमिति चेन्न, देहे. ज्ञानसुखादिप्रतीतावभ्यस्तत्वेन प्रतिसंहितेऽपि लिङ्गेऽप्रतिसन्धानात् [१] । एवं कालोऽपि सर्वत्र [२] भिन्नाकारवर्तमान प्रत्ययवेद्यः । अस्तित्वं वर्तमानत्वमिति चेन्न, तद् [हि] वस्तूनां [स्व] रूपं वा सत्तासामान्यं वा । नाद्यः । भिन्नेष्वभिन्नावभासानुपपत्तेः । नेतरः । अभावे सामान्ये [ऽपि ] च वर्तमानप्रत्ययात् । अनुत्पन्नप्रध्वंस[त्व] मसत्प्रागभावत्वं च वर्त्तमानत्वमि-


न्यायलीलावतीकण्ठाभरणम्

स्थापि परमाणोः प्रवेशदर्शनादित्यर्थः । घ्राणेति । घ्राणोपनीतस्थापि सौरभस्य स्पार्शनप्रत्यक्षे भानवदित्यर्थः । ननु यदि नाध्यक्षा दिक् तदानाकलिततल्लिङ्गानां तद्धीने स्यादित्याह -- अप्रतीति । लिङ्गप्रतिस न्धानमस्त्येव किन्तु अभ्यस्ततया तदप्रतिसन्धानभ्रम इति दृष्टान्तेन द्रढयति — देह इति । परदेहे यथायं सुधीर्ज्ञानवानित्याद्यनुमानमभ्यस्तलिङ्गानां लिङ्गाप्रतिसन्धानाभावादित्यर्थः । कालसिद्धौ पूर्वसूचि तमभिनवं पन्थानमाह - एवमिति । घटो वर्त्तते पटो वर्त्तत इत्यनुगतवर्त्तमानप्रत्ययस्य यो विषयः स एव काल इत्यर्थः । स चाप्रत्यक्षोऽप्युपनीत एव भासत इति भावः। अन्यथासिद्धिं निरस्यति-- अस्तित्वमिति । अभाव इति । तस्य सत्ताभानसामग्री विधुरत्वादिति भावः । अनुत्पन्न-

न्यायलीलावतीप्रकाशः

ज्ञानलज्ञणप्रत्यासत्या परमाणुरपि भासत इत्यर्थ: । देह इति । परस्य देहे ज्ञानसुखादिकमनुमायायं गौरः सुखी ज्ञानवानिति यथा लिङ्गप्रतिसन्धानेऽपि तद्प्रतिसन्धानाभिमान इत्यर्थः । चिरन्तनप्रमाणा-

न्यायलीलावतीप्रकाशविकृतिः

ऽप्युदाहरणत्वं भवेदिति निःसन्दिग्धाकार्य्यस्थलमा गत्योक्तम् । स्वशरीरावच्छिन्नज्ञानस्य प्रत्यक्षत्वात् विशेषपरतया व्याचष्टे परस्येति ।


  1. ०ऽनति संहिता भिमानात् । ०सन्धानामि० ।
  2. सर्वाभिन्नाकार० ।