ति चेन्न, ध्वंसप्रागभावनिवृत्ते [१] र्वस्तुस्वभावत्वेन व्यावृत्तत्वादनुगतावभासविषयताविरोधात् । अर्थ [२]क्रियाजननयोग्यत्वमिति चेन्न, तदपि वस्तुस्वरूपमेव । तच्च व्यावृत्तमनुवृत्तं वा ।
तवाद्ये [३]अभिन्नावभासविरोधोऽन्यत्र जातित्वापत्तिः [त्तः ] ।
कार्योपहितं स्वरूपमिति चेन्न, अननुसंहितकार्यान्वयव्यतिरेकस्यैव नीलादिष्वभिन्नावभासदर्शनात् ।
किं च जनकत्वं जननानुकूलसहकारित्वं [४] वा तत्स्वरूपं [५]वा । नाद्यः । सहकारि[वि]रहितेष्वपि वर्तमानप्रत्ययात । नेतरः ।
न्यायलीलावतीकण्ठाभरणम्
प्रध्वंसत्वमिति । व्योमादीनामिति [६] । व्योमादीनामपि वर्त्तमानत्वव्यवहार साधारणोऽयं धर्म्म इति भावः । स्वरूपयोग्यत्वमादाय शङ्कते---- अथ क्रियेति । अवर्त्तमानदशायां तदनुपपत्तेरिति भावः । जातित्वापत्तरिति । तथा चाभावसामान्ययोर्वत्तमानव्यवहारानुपपत्तेरिति भावः | सहकारियोग्यत्वमादाय शङ्कते - कार्य्येति । अननुसंहितेति । अननुसंहितोपाघेरुपहितवर्त्तमानप्रत्ययानुदयप्रसङ्गादित्यर्थः । शङ्कितमेव द्वयं दूषणं स्फुटयितुं पुनः शङ्कते — किं चेति । सहकारीति । यद्यपि यावत्सत्वं सहकारिसत्त्वं वस्तूनां तथापि तदप्रतिसन्धानेऽपि वर्त्तमानप्रत्ययादिति
न्यायलीलावतीप्रकाशः
दभिनवं प्रमाणमाह - एवमिति । अभिनेत्येकेत्यर्थः । जातित्वापत्तिरिति । तथा चाभावसामान्ययोर्वर्त्तमानताव्यवहारो न स्यादित्यर्थः । कार्योपहितमिति । पूर्व स्वरूपयोग्यतामादाय शङ्कितमिदानीं तु सहकारियोग्यतामादायेत्यपौनरुक्त्यम् । स्वरूपं वेति । न च भिन्नेष्वभिन्नावभासानुपपत्तेरित्यनेन गतार्थता स्वप्रतियोगिकान्योन्याभावानधिकरणत्वस्य स्वरूपत्वात् । सहकारिविरहितेप्विति । यद्यपि यावत्सत्वं
न्यायलीलावतीप्रकाशविवृतिः
स्वप्रतियोगिकेति । तथा च तद्यक्तित्वं स्वरूपत्वं इह तु तन्नियते धर्मा-