पृष्ठम्:न्यायलीलावती.djvu/३८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
न्यायलीलावती

अतीतानागतेष्वपि [१] बर्तमानप्रत्ययप्रसङ्गात् । तेषां स्वरूपतोऽयोग्यत्वे तत्र कारणत्वनिश्चयस्य भ्रान्तत्वप्रसङ्गात् । प्रमाणवेद्यत्व तदिति चेन्न, अतीतेष्वपि [२] वर्तमानावभासापत्तेः । ततः समवायवदेकं वर्तमानं यदवच्छेदकं स कालः । न चैवमतीतानागतावभासबलेनांतीतानागतपदार्थवेदनप्रसङ्गः । प्राक्प्रध्वंसाभावोपाधि-

न्यायलीलावतीकण्ठाभरणम्

भावः । अतीतेति । अतीतानागतयोरपि स्वरूपं स्वरूपमेवेत्यर्थः । यद्यपि यथा तयोः स्वरूपं तथा सामान्यतो वर्त्तमानत्वमपि तथापि तयोर्वर्त्तमानत्वप्रतीत्यनुदयादिति भावः । तेषामिति । अतीतानागतानामयोग्यत्वे तत्रेष्टसाधनताज्ञानाधीना प्रवृत्तिर्न्न स्यादिति भावः । अतीतेष्व पीत्युपलक्षणं अनागतेष्वपीति द्रष्टव्यम् । यदवच्छेदकमिति । घटा दौ यद्विशेषणमित्यर्थः । समवायवदिति । दृष्टान्तेन कालविशिष्टप्रतीतिरपि स्वरूपसम्बन्धाधीनैवेत्युक्तम् । ननु यथा वर्त्तमानप्रत्ययः कालाधीनस्तथा अतीतानागतप्रत्ययावपि अनुगतद्रव्यद्वयाधीनौ स्या तामित्यत आह - न चैवमिति । घटादेः प्रागभावकाल एवानागत कार्लो

न्यायलालवितीप्रकाशः किञ्चिजननात् सहकारिविरहो न कदापि तथापि सहकारिसाहित्यानभिसन्धानेऽपि वर्त्तमानप्रत्ययान्न तदेव वर्त्तमानत्वमिति भावः । अतीतेति । स्वरूपाप्रतिसन्धानेऽपि वर्त्तमानप्रत्ययादित्यर्थः । सामान्यतस्तयोरपि वर्त्तमानत्वादिदानीन्तनवत्तैमानत्वस्य चानिर्वचनादू यथाश्रुतस्यानुपपत्तेः । तेषामिति । तथा चेष्टसाधनताज्ञानाभावाद् बहुवित्तव्ययायाससाध्ये प्रवृत्त्यभावापतेरित्यर्थः । समवायवदित्यनेन सम्बन्धान्तरनिरास: । 'अवच्छेदकं' विशेषणम् । यद्यपि वर्त्तमानत्वं न्यायलीलावतीप्रकाशविवृतिः न्तरमित्यपौनरुक्त्यमिति भावः । स्वरूपेति । निरुक्तस्वरूपत्वाप्रतिवत्धानेपीत्यर्थः पीत्यर्थः । यथाश्रुतार्थत्यागे हेतुमाह - सामान्यत इति । समवायवदिति । यथा समवायः स्वरूपेणैवावच्छदेकः तथा वर्त्तवानाख्य कालोऽपीति सावः । यद्यपीति । तथा च किं विशेषणत्वविवक्षया विशेषो [३] पलक्षण-


  1. ० तेषु व० ।
  2. अतीतानागतेष्वपि व० ।
  3. विशेषणोपलक्षणम् ।