पृष्ठम्:न्यायलीलावती.djvu/३८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


वशेनैव तदुपपत्तेः । विवादाध्यासितान्यव्यापकद्रव्याणि युगपद्विशेषगुणशून्यैकद्रव्यसंसर्गीणि द्रव्यत्वात् आत्मवत् [इति] दिक् ।


न्यायलीलावतीकण्ठाभरणम्

भविष्यतीति प्रत्ययालम्बनः प्रध्वंसावच्छिन्नश्च काल आसीदिति प्रत्ययालम्बनः नित्येषु चातीतानागतव्यवहारो नास्त्येव वर्त्तमानव्यवहारस्तु तत्रापीति भावः । येनानुमानेनोपनीतः कालः प्रत्यक्षे भासते तदाह - विवादाध्यासितानीति। दिङ्मात्रसम्बद्धानि दिग्भन्नविशेष गुणशून्यद्रव्यसम्बद्धानि वेति विवादाध्यासितानीत्यर्थः । अत्र संसगिणीति यदि संयुक्तानीति साध्यं तदाऽव्यापकत्वेन द्रव्यानि विशेघ्यानि | अन्यथा व्योमादावपि वर्त्तमानप्रत्ययदर्शनात् स्वरूपसंसर्ग स्तत्रापनि विशेषणमनर्थकम् । एवं च द्रव्यानीत्यपि न तथा प्रयोजनवत् पदार्थमात्रस्यैव संसर्गित्वात् । सर्वत्र वर्त्तमानादिप्रत्ययदर्शनात् दिग्भन्नत्वेन साध्यं विशेष्यं व्यापकानां मनःसंयुक्तत्वनैव दृष्टान्तता । अव्यापकानां द्रव्याणां पक्षधमंताबलात् दिग्भिन्नं विशेषगुणशून्यं यदेकं द्रव्यं कालस्तत्संयुक्तत्वं सिध्यतीति भावः । वस्तुतस्त्वात्मभिन्नाः सर्वे पदार्था: दिग्भन्न विशेषगुणशून्यैकद्रव्यसंसर्गिणः पदार्थत्वादात्मवदित्यत्र तात्पर्यम् । सर्वत्र यौगपद्यवर्त्तमानादिप्रत्ययानां कालनिबन्धनानां दर्शनात् ।

न्यायलीलावतीप्रकाशः

कालस्वरूपमेव तदवच्छेदोऽपि वस्तुकालाभ्यां नातिरिच्यते । न चैवमतीतमपि वर्त्तमानं स्यात् सामान्यत इष्टत्वात । तथापीदान वर्त्तत इत्यतीतेऽपि प्रयोगः स्यादिति भावः । अनुमानोपनीतः कालः प्रत्यक्षे भासत इति कालसाधकमनुमानमाह-विवादेति | दिगन्यत्वेन साध्यविशेषणान्न सिद्धसाधनं अव्यापकद्रव्य मात्राभिधाने च मनःसंयोगेन

न्यायलीलावतीप्रकाशविवृतिः

साधारणोपरञ्जकत्वमात्रपरतयैवावच्छेदकपदार्थः कुतो न व्याख्यातः । अतीतादौ वर्त्तमानत्वप्रत्ययापादने चेष्टापत्तिरेवेति भावः । तथापीति । तथा चोपलक्षणत्वेऽतीतेऽपि तथा शब्दप्रयोगापत्तिरिति भावः । तस्मात्तदा प्रयोगाधिकरणकालविशिष्टत्वं तत्कालीनतत्पद प्रयोगोपाधिः । तत्कालीनयच्छन्दादिप्रयोगे तत्तत्कालीनबुद्धिवि