पृष्ठम्:न्यायलीलावती.djvu/३८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
न्यायलीलावती


सुखोपादानमितरेभ्यो भिद्यते सुखोपादानत्वात् । न यदेवं


न्याय लीलावतीकण्ठाभरणम्

 ईश्वरस्य साधितत्वात् संसारिणमधिकृत्याह - सुखोपादानमिति । अत्रेतर पदेन ईश्वरोऽपि विवक्षितः । तेन न हेतोः सपक्षाड्यावृत्ति, ईश्वरस्यापि विपक्षत्वात् । आत्मत्वावच्छेदेन इतरभेदो ज्ञानवत्त्वेनैव साध्य इति हृदयम् | सुखं क्वचिदाश्रितं गुणत्वादिति सामान्यतोद्दष्टात् परिशेषसहायात् सुखोपादानं सिद्धं तस्येतरभेदः साध्य इति नाश्रयासिद्धिः । सुखस्य रूपादिपञ्चस्कन्धनिबन्धनं तदुपादानकत्व

न्यायलीलावतीप्रकाशः

सिद्धसाधनं स्यादिति विवादाध्यासितानीत्युक्तम् । ननु विशेषगुण शून्यैकैकद्रव्य संयोगित्वे साध्ये सिद्धसाधनम्, एकमात्र संसर्गित्वे च सा ध्येऽप्रसिद्धविशेषणत्वम् । अत्राहुः । तन्त्वनाश्रितानि कार्याणि तन्त्वा श्रितकार्याधिकरणजन्यानि कार्यत्वात्सम्प्रतिपन्नवदित्यत्र तात्पर्यात् ।

 ईश्वरात्मनो भेदस्य पूर्वोक्तत्वात्संसारिणं पक्षीकृत्याह-- सुखोपादा-

न्यायलीलावतीप्रकाशविवृतिः

षयतावत् । विशिष्टं चातीतत्वादिदशायां नास्ति विशेष्याभावात् । उपलक्षणता तु विशेष्यात्ययेऽपि विशेषणात्यय इवाविरुद्धेति तात्पर्यम् । विवादाध्यासितानीति । एवञ्च मनोऽसंसर्गीणीत्यर्थः । ननु विशेषगुणेति । न च सिद्धसाधनं मनसैवाभिमतं तच्च मनःसंसर्गर हितस्यैव पक्षतया युक्तमिति वाच्यम्, मनः संसर्गराहित्यस्यैव पक्षता वच्छेदकतायामज्ञानरूपाश्रयासिद्धिः । तनिश्चायकाभावादेकमनःसं. पक्षता सर्गराहित्यस्य च तथात्वे मनोऽन्तरसंसर्गमादाय सिद्धसाधनम् | न च विशेषगुणशून्यादेगन्यद्रव्यसंसर्गित्वमात्रमेव साध्यं लाघवा- च्चैककालसिद्धिरिति वाच्यम्, नानात्वेऽपि मनसां क्लृप्तत्वेन एक- स्वलाघवस्याकिञ्चित्करत्वादिति भावः । तन्त्वनाश्रितानीति | पक्षभिन्न. स्यैव दृष्टान्तत्वं पक्षतावच्छेदकेऽपि चांशतः सिद्धसावनमिति पक्षविशेषणम् । कार्याधिकरणमात्मापीति तज्जन्यत्वेनार्थान्तरमिति तन्त्वनाश्रितत्वं कार्य विशेषणम् । अव्यासज्यवृत्तित्वमपि कार्यविशेषणमतो न संयोगमादायोक्तदोषतादवस्थ्यम् दिगन्यत्वमप्याधकरणविशेषणमतो न सिद्धसाधनम् । न च तन्तुनाऽर्थान्तरं बाधादेव तदस-