पृष्ठम्:न्यायलीलावती.djvu/३८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न तदेवं यथा रूपम् । न चात्र रूपादिविषयपञ्चकमेवोपादानम् । आन्तराणां बाह्यानुपादानत्वात् । अन्यथा ज्ञानस्यापि देहापादानतापत्तेः । नापि ज्ञानमेव । सुखस्याज्ञानात्मकत्वात् [१]। अन्यथा शब्दस्यापि तादृशतापत्तेः । न चेदमेव ज्ञानं स्पष्टनीलाद्याकार-


न्यायलीलावतीकण्ठाभरणम्

शङ्कां निरस्यति – न चेति । रूपादीत्यादिपदेन रसाघुपसङ्ग्रहः । आन्तराणामिति । मनोमात्र ग्राह्याणामित्यर्थः । आत्मभिन्नत्वं वाह्यत्वं वहिरिन्द्रियग्राह्यत्वं वा वाह्यत्वम् । मानससाक्षात्काराविषयत्वमिति यावत् । अन्यथेति । यद्यान्तरमपि वाह्योपादानकं स्यादित्यर्थः । नापि ज्ञानमेव सुखोपादानमित्यनुषञ्जनीयम् । बौद्धमते सजातीयमेव कारणमित्यवष्टम्भेनाह – सुखस्येति । अन्यथेति । यदि विजातीयमप्युपादान स्यादित्यर्थः । 'तादृशतापत्तेः' ज्ञानोपादानकतापत्तेः । न चेदमवेति । 'इदं ' सुखं ज्ञानमेवेत्यर्थः । तथा च सजातीयं ज्ञानमुपादानं भवेदिति भावः । शब्देति । यथा शब्दनीलयोर्भेदो वाह्योपादानकत्वं च तथा शीतस्य

न्यायलीलावतीप्रकाशः

नमिति । न चेश्वरात्मनः सपक्षत्वात् तद्व्यावृत्तेरसाधारण्यमितरपदेन पृथिव्यादिचतुर्दशकस्येश्वरस्य च विवक्षतत्वात् । आन्तराणामिति । वहिरिन्द्रियाजन्यजन्यसाक्षात्कारविषयत्वमान्तरत्वम् ज्ञानभिन्नत्वं च वाह्यत्वम् । नापि ज्ञानमेवेति । उपादानमित्यनुषञ्जनीयम् । सुखस्येति । सजातीय कारणमुपादानं बौद्धानां सुखं च ज्ञानत्वानधिकरणमतो न ज्ञानोपादानकमित्यर्थः । विजातीयोपादानकत्वे दोषमाह -- अन्यथेति । ज्ञानोपादानकत्वापत्तेरित्यर्थः । न चेदमिति । 'इदं' सुखं ज्ञानमेवेत्यर्थः । अतस्तदुपादानं ज्ञानमेव स्यादिति भावः । स्पष्टेति ।

न्यायलीलावतीप्रकाशविवृतिः

म्भवात् । न चात्मन एव सर्वाधारत्वमितः सिद्ध्यतीति वाच्यम्, सन्निरासप्रकारस्यानुपद मेवोक्तत्वात् । न तन्तुसमवेतत्वमुपाधिः लाघवेन कार्यत्वस्यैव तत्प्रयोजकत्वेन व्याप्यतया पूर्वोक्तप्रतीतिरूपविपक्षबाधकेन तन्निरासादिति भावः । इतरेति । तथा चेश्वरस्य विपक्षत्वमेवेति भावः । ज्ञानभिन्नत्वं चेति । एतश्च परमतेनैवोक्तम् । तथा च तद्वै-


  1. ०स्य ज्ञानानात्मकत्वात् ।