पृष्ठम्:न्यायलीलावती.djvu/३९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
न्यायलीलावती


स्येव [१]स्पष्टशाताद्याकारस्यापि, बाह्योपादानत्वात् । न चानादिसुखसन्ततिरुपादानम् । पूर्वमनुपलब्धेः । तदिन्द्रियविषयबुद्धिदेहा [२] व्यतिरिच्यमानमुपादानमात्मैव । असति चात्मनि अन्यानुभूतस्यान्येन स्मृतिर्न [३] स्यात् । उपादानोपादेयभावादुपपत्स्यत इति चेन्न, दिनान्तरानुभूतस्य सुषुप्तिदशान्तरितोपादानोपादेय सन्ततित्वेन स्मृतेरनुपपत्ते: । निराकारा चित्सन्ततिरनुवर्तत


न्याय लीलावतकण्ठाभरणम्

सुखस्यापि ज्ञानाद् भेदो वाह्योपादानकत्वं चेत्यर्थः । वाह्यत्वमिह ज्ञानभिन्नत्वम् । ननु सुखस्य सजातीयं सुख मेवोपादानमित्यत आह --- न चानादीति । पूर्वमिति । सुखस्य उत्पन्नमात्र ग्राह्यत्वेन सुखोत्पत्तेरपि पूर्व सुखोपलम्भापत्तिरेवं स्यादिति भावः । परिशेषाद् यत् सिद्धं तदाह—तदिन्द्रियेति । अर्थादिन्द्रियानुपादानत्वमपि सिद्धमेवेत्युपसंहृ तम् । देहानां वाल्यकौमारादिभेदादिन्द्रियाणां विषयाणां च भेदादन्यदृष्टस्यान्येनास्मरणाद् यदेकत्वनिबन्धना स्मृतिः स आत्मेत्याह--- असतीति । ननूपादानोपादेयप्रवाहोऽनुभविता स्मर्त्ता च स च भूतचैतनिकस्य देहप्रवाहो बुद्धिचैतनिकस्य तु बुद्धिप्रवाह एवेति न स्मृत्यनुपपत्तिरित्याह- उपादानेति । बुद्धिचैतनिक प्रति बाधकमाह --- दिनान्तरितेति । सुषुप्त्यन्तरितोपादानकत्वेन दिनान्तरानुभूतगोचरायाः स्मृतेरनुपपत्तिरित्यर्थः । सुषुप्तिदशायामपि सूक्ष्ममात्रया बुद्धिधाराऽनुवर्त्तत एवेति न विच्छेद इत्याह –-- निराकारेति । निर्विषयं यदालयविज्ञानमाचक्ष्मह इति भावः । तर्हि निर्विषयं सुखोपादानमनादिनि-

न्यायलीलावतीप्रकाशः

अहं सुखी अहं जाने इति विलक्षणबुद्धिवेद्यत्वादित्यर्थः । दिनान्तरेति । दिनान्तरानुभूतस्य स्मृतेरनुपपत्तेरिति सम्बन्धः । अत्र सुषुप्तीत्यादि हेतु: । 'अन्तरितत्वं' विच्छिन्नत्वम् । ननु विच्छेदो योग्याऽनुपलब्ध्या ज्ञायते सुषुप्तौ चायोग्या ज्ञानसन्ततिरस्तीत्याह - निराकारेति । नि-


  1. शब्दनीलाघाकारवदिति कण्ठाभरणसम्मतः पाठ ।
  2. तदिन्द्रियबुद्धिविषयदेहव्य० ।
  3. स्मरणं न स्वत् ।