पृष्ठम्:न्यायलीलावती.djvu/३९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१७
त्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


इति चेन्न, चितां साकारत्वेन प्रतिबन्धात् । अन्यथा सर्वत्र ज्ञानसुखदुःखादिसन्ततेरेवानुवृत्ति [१] प्राप्तेः । नन्विदमसम्बद्धम् । जगतः


न्यायलीलावतीकण्ठाभरणम्

धनमात्मानं स्वीकृतवानसीत्यभिप्रेत्याह - चितामिति । साकारत्वेन सविषयत्वेनानादिनिधनत्वमात्मनोऽसहमानः पूर्वपक्षी क्षणभङ्गमवतारयति – नन्विति । इदमिति । आत्मनोऽनादिनिधनत्वमित्यर्थः । जगत इति । आत्मनोऽपि जगदन्तकृतत्वादिति भावः । क्षणभङ्गे विप्रतिपत्तिः सत्त्वं क्षणमात्रवृत्त्यनेकवृत्तिधर्म्मव्यापकताव्याप्यं न वा । कार्य्यं स्वसमवायिकारणसमानकालीनं न वा । सत्त्वमुत्पत्तिव्याप्यं न वा ।

न्यायलीलावतीप्रकाशः

र्विषया ज्ञानसन्ततिरालयविज्ञानरूपेत्यर्थ: । 'साकारत्वेन' सविषयत्वेनेत्यर्थः । अनादिनिधनं निर्विषयकं सुखोपादानं तावतापि सिद्धमित्यभिसन्धिः । ननु न सिद्धं क्षणभङ्गपक्षे तस्य सन्तन्यमानत्वेनानादिनिधनत्वानुपपत्तेरित्यभिसन्धाय क्षणभङ्गमवतारयति-- नन्विति । क्षणभङ्गे विप्रतिपत्तयः सत्त्वमुत्पत्तिव्याप्यं न वा, कारणस्य कार्यो-

न्यायलीलावतीप्रकाशविवृतिः

परीत्या न रूपादिपञ्चकमुपादानमिति भावः । सत्त्वमिति । अत्र व्याप्तिः कालगर्भा । एतत्सत्त्वमेतदुत्पत्तिव्याप्यमिति च विधिकोटिः । तेन तदुत्पत्तिकाल एव तत्सत्त्वमिति क्षणिकतापर्यवसानं विधिकोटौ । अत्र विधिप्रसिद्धिस्तदुत्पत्तावेव । निषेधप्रसिद्धिस्तु भिन्नकालमात्रे । कारणस्येति । स्वरूपयोग्यस्य तत्तत्कार्यसम्बन्धः सहकार्यनपेक्षो न वा । एवञ्च पूर्वापरवीजभदादर्थात् क्षणिकतासिद्धिः । विधिकोटिप्र सिद्धिर्नित्ये निषेधप्रसिद्धिर्घटादाविति मन्मते, [ परमते ? ] विधिकोटिप्रसिद्धिर्घटादौ निषेधप्रसिद्धिस्त्वलीके । अत्र प्रथमायामुत्पत्तेः सत्त्वघटितत्वेन व्यापकत्वासम्भवः व्याप्यं व्यापककोटाविति न्यायात् । विशिष्टाविशिष्टभेदेन च तथात्वाविरोधस्तदा यद्युत्पत्तावन्यविशेषणप्रक्षेपः, स च तन्मते व्यावर्त्त्याभावात् अयुक्त एवेत्यपरितोषाद्वितीयोक्ता सापि विरुद्धा । अत्र धर्मिपक्षकप्रयोगदर्शनादेतस्याश्च धर्मपक्षकत्वात् । समानविशेष्यकत्वस्य च तत्र तन्त्रत्वादित्य-


  1. सुखसन्ततेनुवृत्तिप्रा० ।