पृष्ठम्:न्यायलीलावती.djvu/३९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
न्यायलीलावती


क्षणभङ्गित्वात्। तथा हि यत्पूर्वापरकालयोर्विरोधिसंसगिं तत् पूर्वापर [१] कालयोर्भिद्यते यथा [प्र] दीपः, तथा च विवादास्पदम् ।


न्यायलीलावतीकण्ठाभरणम्

क्षणभङ्गे प्रमाणमाह - यदिति । पूर्ववर्त्तिनो घटादपरवर्त्ती घटो भिद्यते तद्विरुद्धधर्मसंसर्गित्वात् । यद्यविरुद्धधर्मसंसर्गि तत्ततो भिद्यत इति मानार्थः । अन्यथा क्षणभङ्गो न सिध्येत, हेतौ पूर्वापरकालयोरित्यस्य वैयर्थ्य च स्यात् ।

न्यायलीलावतीप्रकाशः

पधानं कारणत्वमात्रप्रयोज्यं न वा, कार्यं स्वसमवायिकारणसमानकालीनं न वेति । तत्र क्षणभङ्गसाधनमाह -- तथा हीति । ननु पूर्वापरकालीनत्वं भेदहेतुरस्तु विरुद्ध धर्मसंसर्गित्वस्य व्यर्थत्वात् । न चैतावता क्षणभङ्गसिद्धिः किन्तु पूर्वापरकालीनयोर्भेदमात्रम् । अन्यथा प्रदीपस्य दृष्टान्तस्य साध्यवैकल्यापत्तेरिति । मैवं मध्यक्षणवर्त्ती भावः पूर्वापरक्षणवर्त्तिनस्तस्माद्भिद्यते तद्विरुद्ध संसर्गित्वात् सम्प्रतिपन्नवदिति विवक्षितत्वात् । तथा चार्थात् क्षणभङ्गसिद्धिः । विरुद्धधर्मसंसर्ग

न्यायलीलावतीप्रकाशविकृतिः

रुच्या तृतीयामाह -- कार्यमिति । इयमपि यद्यपि कार्यपाक्षिका प्रयोगश्च कारणपक्षक इति दोषतादवस्थ्यम् तथापि स्वसमवायिकारणं कार्यसमानकालीनं न वेति विप्रतिपत्तिर्दृष्टव्या । एवञ्च विधिकोटे: कार्ये निषेधकोटेश्च तत्कार्यसमानकालपटादावेव प्रसिद्धिः सुलभा । यथाश्रुरते कोट्यप्रसिद्धिः । यथाश्रुतेऽव्ययं घटसम वायिकारणसमानकालीनो न वेत्येवार्थ इति तदारम्भककपालादावेव विधिप्रसिद्धिरित्यप्याहुः। साध्यसिद्धिविरोधिसंशयत्वेनैव चानुमित्यङ्गत्वमिति न समानाविशेष्यतापर्यन्तादर इति तेषामभिसन्धिः । विरुद्धेति । तन्मते तावत एव भेदव्याप्यत्वादिति भावः । इष्टापत्ति- माशङ्ख्याह—न चेति । क्षणिकत्वस्य हेतुव्यापकत्वानवगमादिति भावः । अन्यथा क्षणिकत्वस्य व्यापकत्वे साध्यवैकल्यमिति उभयसिद्धत्वानुपपत्तरित्यर्थः । पूर्वापरक्षणवर्त्तित्वावच्छिन्न प्रतियोगि कान्योन्याभावक्ष्चात्र साध्योऽतो न तादृशकिञ्चिद्भेदमादाय सिद्धसाधनम् ।

 नन्वेवमपि क्षणभङ्गासिद्धिरनुद्ध तैवेत्याह-तथा चेति । क्षणभङ्गनान्त-


  1. तत्परापरका० ।