पृष्ठम्:न्यायलीलावती.djvu/३९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न चैतदसिद्धम् । प्रसङ्गतद्विपर्ययाभ्यां [१] तत्सिद्धेः । अजनकमपि सहकार्यभावात्समर्थमिति सन्दिग्धव्यतिरेकित्वमेतयो[२] रिति चेन्न,


न्यायलीलावतीकण्ठाभरणम्

 ननु विरुद्धधर्म्मसंसर्गित्वमसिद्धमत आह-न चैतदिति । प्रसङ्गेति । प्रसङ्गाभ्यां विपर्य्ययाभ्यां चेत्यर्थ । तथा हीति [३] । कुशूलस्थं बीजं यदि जनकं स्यात् कुर्य्यान्न च करोति तस्मान्न जनकम् । एवं क्षेत्रपतितं यद्यजनकं स्यान्न कुर्य्यात् करोति च तस्मान्नाजनक मिति जनकत्वाजनकत्वलक्षणविरुद्धधर्मसंसर्ग इति भावः । समर्थमपि सहकारिविरहान्न जनकमिति प्रकृतप्रसङ्गविपर्थ्यययोर्विपक्षबाधकर्तकशून्यत्वमाह - अजनकमपीति । सन्दिग्धव्यतिरेकित्वं विपक्षबाधकतर्कशुन्यत्वं सन्दिग्धानैकान्तिकत्वे वा । उभयेरिति । प्रसङ्गविपर्य्यययोरित्यर्थः । अनुमानतर्कयोर्विरुद्ध धर्म्मसंसर्गस्यापि सन्दिग्धत्वात् भावस्वभावनिर्वचनसामर्थ्यादेव प्रसङ्गविपर्य्यययोरदोषत्वं भविष्यतीत्यभिप्रायेणाह – नेति । 'कारकस्वभावत्वे' क्रियोपधानस्वभावत्वे । 'अन्यथा' क्रियानुपधानस्वभावत्वे । ननु सहकारिसमवधानासमवधानप्रयुक्ते जनकत्वाजनकत्वे । तथा च कथं सदा जनन-

न्यायलीलावतीप्रकाशः

साधयति - न चैतदिति । 'यतत्' परस्परविरुद्धधर्मद्वय संसर्गित्वमित्यर्थः । प्रसङ्गेति । यद्येतत्कालीनं वीजं उत्तरक्षणवर्त्यर्थक्रियायां समर्थे स्यात् तदानीं जनयेत् एतच्च सामग्रीमध्यप्रविष्टे तत्र दृष्टम् । न च जनयति तस्मान्न समर्थमिति विपर्ययः । न च प्रसङ्गे इष्टापत्तिरुत्तरक्षणे तेन तज्जननादिति वाच्यम्, एतत्कालीनत्वेन पक्षविशेषणात्। पक्षतावच्छेदकधर्मसामानाधिकरण्यमेव साध्यमानस्य सिघ्घतीत्यनुमाने क्लप्तत्वादेतत्क्षणे सामर्थ्येन जननकत्वावधारणात् । अत्र चैकैन प्रस

न्यायलीलावतीप्रकाशविवृतिः

रीयकस्य सिद्ध्या उत्तरकाल क्षणभङ्गसिद्धिरित्यर्थः । यद्वा इदमेव क्षणिकत्वं तच्चार्थात् पक्षधर्मताबलेन पक्षनिष्ठतया सिध्यतीत्यर्थः । नपुंसकतामुपपाद्यति - परस्परेति । पक्षतावच्छेदकेति। पक्षतावच्छेदकविशि- ष्ट एव साध्यवैशिष्ट्य मनुमितिविषयो विशिष्ट वैशिष्ट्यबोधस्यौत्स-


  1. प्रसङ्गविपर्य्ययाभ्यां ।
  2. उभयोरिति कण्ठाभरणसम्मतः पाठः ।
  3. अत्र एतवमतीकानुसारी पाठो मुले न दृश्यते ।