स्वभावानिरुक्तेः । तथा हि भावस्य कारकस्वभावत्वे सदा जननम् । अन्यथाऽजननमेव स्यात् । सहकारिसन्निधाने जनकत्वं,
अजनकत्वं चान्यदेति स्वभाव इति चेन्न, कारकमकारकं चेति
यदि धर्माभिधानं [१] न तर्हि धार्मण स्वभावः । धर्मिरूपं चेत्
कथमनेकमेकस्य [ धर्मिणो ] रूपम् । एकं चेत् यावदवस्थानं
जनकम [२] जनकं चेति प्राप्तम् । यदि च सहकार्यवच्छेदोऽपि [न]स्वभावान्तर्भूतस्तदा गलेपादुकया [३] सहकारिणामुदयः । न चेत्सदाऽजननापत्तिः । सहकारिसमयानन्तरसमयिन: [४] फलात्पू-
न्यायलीलावतीकण्ठाभरणम्
मेवाजननमेव वा सदेति शङ्कते - सहकारीति । यदि कारकत्वाकारकत्वे वीजादेर्धर्मो न तदा स्वभावाभिधानम्। अथ धम्मिस्वरूपमेव कारकत्वमकारकत्वं च तदा नैकस्य स्वभावद्वैरूप्यमित्याह - नेति । ननु जनकत्वाजनकत्वेऽपि एक एव भावस्वभाव इति कुतो द्वैरुप्यमित्याशङ्कयाह - एकं चेदिति । यच्चोक्तं सहकारिसमवधानासमवधानयोर्जनकत्वाजनकत्वे तत्राह -- यदि चेति । उदय इति । समवधानमित्यर्थः । अजननापत्तिरिति । उपसीदतोऽपि सहकारिणो निराकृत्य न जनयेदित्यर्थः । ननु कार्य्यनियतपूर्ववर्त्तिजातीयत्वं भावस्य स्वरूपयोग्यता सहकारिसमधानं च सहकारियोग्यता तदधीनं च फलोपधानमतः कथं सदा फलोपाधानं कदाचिद्वा न फलोपधानमिति शङ्कत - सहकारीति । भाव-
न्यायलीलावतीप्रकाशः
ङ्गेन तद्विपर्ययेन चैकस्यैव विरुद्धधर्मवत्त्वं नापरस्येति प्रसङ्गविपर्ययपदाभ्यां प्रसङ्कद्वयं विपर्ययद्वयं च विवक्षितम् । 'सन्दिग्धव्यतिरेकित्वं' अप्रयोजकत्वमित्यर्थः । स्वभावेति । स्थैर्यपक्षे तज्जनकत्वाजनकत्वाभ्यामन्यस्य प्रकारस्याभावात्तद्विपर्ययावसाने बाधकसद्भावादित्यर्थः । सहकारीति । तथा च जनकत्वावच्छेद करूपस्याजननकालासत्त्वान्न विरोध इत्यर्थः । न तहर्हीति । तच्च धर्मधर्मिणोर्भेदादित्यर्थः । जनकं चेति । ततः सिद्धं विरुद्धधर्मसंसर्गित्वमित्यर्थः । यदि चेति । सहकारिराहित्ये स्वभावप्रव्यवापत्तरित्यर्थः । न चेदिति । यदि न सहकार्यवच्छेदः