पृष्ठम्:न्यायलीलावती.djvu/३९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


र्वभावित्वं स्वभाव इति चेन्न, अस्यापि धर्मस्वभावत्वात् [१]

 अत्रोच्यते । सहकारिसन्निधि [२] काले यः कार्यं जनयति [३]भावः स सहकारिविरहकालेऽपि तत्र कार्ये समर्थोऽसमर्थो वा । समर्थचेत्तदापि जनयेत् । न चेत्तदेव वस्तु तत्र शक्तमशक्तं चेति दुर्वारो विरोधः। सहकारिविरहकालेऽसत्त्वान् न करोति न तु तद-


न्यायलीलावतीकण्ठाभरणम्

स्वभावपक्षोक्तदोषस्य न धर्म्मद्वयनिरूक्तसमाधानमित्याह – अस्थापीति । जनकत्वाजनकत्वलक्षणो विरुद्धधर्म्मसंसर्गो यथाऽस्मन्मते तथा शक्तत्वाशक्तत्वलक्षणविरुद्धधर्मसंसर्ग एकस्मिन्नपि क्षणे क्षणिकत्ववादिनोऽपि समाधानमाह - सहकारिसन्निधान इति । तत्रेति । क्षणे कार्य्य इत्यर्थः । ननु सति धर्म्मिणि विरुद्धधर्म्मसंसर्गसम्भावना सहकारिविरुद्धकाले च धर्म्म्येव नास्ति कुतो विरोध इति शङ्कते--सहकारीति । एवं सति एकस्यैव सत्त्वासत्त्वलक्षणो विरोध इत्याह – नेति । तुल्य

न्यायलीलावतीप्रकाशः

स्वभावान्तर्गतः तदा सर्वदेवाजननापत्तिः । सहकार्यवच्छिन्नस्वभावस्यैव जनकत्वादस्य चातथात्वादित्यर्थः । "अनन्तरसमयभाविन" इति पञ्चम्यन्तं फलादित्यस्य विशेषणम् । अस्यापीति । तथा च धर्मिस्वभावानिरुक्तिः धर्मिण एव यदीदं रूपं तदा यावत्सत्त्वं फलात्पूर्वभावस्तस्य प्रसक्त इत्यर्थः ।

 सहकारिविरहकाल इति । सौगतानां भिन्नकालीन एवाभाव-

न्यायलीलावतीप्रकाशविकृतिः

र्गिकत्वात् । प्रकृते बाधकस्याभावादत एव धूमकालीनत्वेन पक्षतायां तत्समानकालीनवह्निसिद्धिरित्यन्यत्र विस्तरः । इदं च समाधिसौकर्याीदुक्तं वस्तुत एतत्कालीन सामर्थ्येनैतत्कालीनकालोपधानमेवापाद्यम् । तथा च पक्षतावच्छेदकसाध्यसामानाधिकरण्यमात्रस्यानुमितिविषयतापक्षेऽपि न दोषः । अस्य चेति । तथा च यदीदमसमर्थ स्याम्न कु यत्करोति च तस्मात्समर्थमित्येतावतापि प्रसङ्गविपर्ययावत्राभिप्रेताविति द्रष्टव्यम् । ननु [ न्व ? ] सत्त्वमभावप्रतियोगित्वं तच्च न सत्वविरोध एकधर्मिंगतत्वनानुभवादित्यत आह - सौगतानामिति ।


  1. धर्भ्भस्वभावात् ।
  2. सन्निधानकाले ।
  3. यत् काय्यमज्जयति मा० ।