पृष्ठम्:न्यायलीलावती.djvu/३९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
न्यायलीलावती


समर्थमिति चेन्न, सहकारिविरहकाले याऽसद्रूपता [सा] सहकारिसन्निधानकाले [ऽपि] विद्यते न वा । विद्यते चेत्स्वकाल एवासच्चप्रसङ्गः । न चेन्न तर्हि सहकारिविरहकाले तदसद्रूपम् । अथैकमेव वस्तु सहकारिभावाभावयोः सदसव्यवहारयोग्यमिति चेत्तथैव तर्होकमेव शक्ताशक्तव्यवहारयोग्यमिति तुल्यम् ।

 किञ्च न ह्यसामर्थ्य विहायान्यदसवमस्ति । अथैकस्मिन्नेव वस्तुनि सहकारिसमवधानानन्तरं कार्यजननस्वभावता तद्विरहे चा[१]समर्थस्वभावतेत्युभयमविरुद्धमिति चेत्तुल्यमिदमस्मन्मतेऽपि । तथापि सहकारिसमवधाने [२] यत्समर्थरूपं तदेव चेत्प्रागप्यस्ति पूर्वमपि कार्यप्रसवप्रसङ्ग इति चेन्न, सहकारिविरहे [३] यत्तत्र न समर्थरूपं तदेव चेत्सहकारिसन्निधानकालेऽप्यतो [४] Sजननप्रसङ्ग इति तुल्यम् । न च सहकारिणां स्वभावान्त-


न्यायलीलावतीकण्ठाभरणम्

त्वापादानायाह – अथैकमेवेति । किं च य एव त्वया सामर्थ्यासामर्थ्यलक्षणो विरोध आपादितः स एव सत्त्वासत्त्वपर्यव[स?] न्नस्त्वय्यापतित इत्याह — किञ्चेति । अवच्छेदभेदमादायाविरोधो ममापि तुल्य इति शङ्कोत्तराभ्यामाह–अथेति । भावस्वभावमादाय पुनः शङ्कते-तथापीति । भावस्वभावनिरुक्त्या दोषसाम्यमित्याह – नेति । सहकारिणां स्वभावान्तर्भावपक्षोक्तदोषपरिज़िहीर्षुराह-न चेति । 'शक्तपदवाच्य-

न्यायलीलावतीप्रकाशः

स्तस्यासत्त्वं धर्मः । कार्यजननमेव सत्त्वम् । तथा च विरोघो दुर्वार इति भावः । सहकारिविरहकाले तदसम्न्नत्वसमर्थमित्यत्र दूषणान्तरमाह - किञ्चेति । सहकारिणां स्वभावान्तर्गतत्वे गलेपादिकया सहकारिणामुदयप्रसङ्ग इत्यत्राह --- न च सहकारिणामिति । एव-

न्यायलीलावतीप्रकाश विवृतिः

भिन्नकालीन एवाभावस्तस्य धर्मिणोऽसत्वरूपो धर्म इत्यर्थः । कार्यज


  1. ० हे वासमर्थस्व० ।
  2. ०धानकाले यत्० ।
  3. विरहकाले ।
  4. ० लेऽपि ततोऽज०।