पृष्ठम्:न्यायलीलावती.djvu/४०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


स्थितम् । मैवम् । विभुविशेषगुणग्राहकेन्द्रियत्वेन मनसो मूर्तचतुष्टयव्यावृत्तेः । पार्थिवस्य गन्धग्राहकत्वनियमात् । त्र्प्रन्यथा


न्यायलीलावतीकण्ठाभरणम्

'तत्प्रतिक्षेपात्' मूर्त्तत्वप्रतिक्षेपात् । विभुविशेषगुणग्राहकत्वं शरीरेऽनैकान्तिकमत उक्तमिन्द्रियत्वेनेति । गन्धग्राहकत्वनियमादिति । गन्धादिषु मध्ये गन्धमात्र ग्राहकत्वनियमादित्यर्थः । अन्यथेति । यदि पार्थिवेन्द्रियस्य नियतानुग्राहकत्वं स्यादित्यर्थः । घ्रांणरसनयोरित्युपलक्षणम्, इन्द्रियान्तरविलोपप्रसङ्गोऽपि द्रष्टव्यः । 'द्रव्यान्तरं स्यात्'

न्यायलीलावतीप्रकाशः

व्यस्पर्शत्वासिद्धिः पूर्वमुक्ता अनित्यत्वे सति नित्य विशेषगुणत्वात् पार्थिवपरमाणुरूपवदिति न मूर्त्तत्वे मान विभागजशब्दजशब्देन व्यभिचारात् । मनो मूर्तं रसग्राहकेन्द्रियत्वात् रसनवदित्यपि निरवयवत्वेन प्रतिरुद्धम् । मनो मूर्त्तमनाकाशेन्द्रियत्वात् चक्षुर्वदित्यपि नित्यद्रव्यगुणग्राहकेन्द्रियत्वात् श्रोत्रवदित्यनेन प्रतिरुद्धम् । विभुविशेषेति । अत्रेन्द्रियग्रहणान्न शरीरकर्णशष्‍कुलीभ्यां व्यभिचारः । न च श्रोत्रत्वमुपाधिः तुल्ययोगक्षेनत्वात् । अत एव नेन्द्रियत्वसाधनावच्छिन्न साध्यव्यापकं द्रव्यत्वव्याप्यजातिरहितत्वमुपाधिः । पार्थिवस्येति । यद्यपि मनोऽपि गन्धग्राहकमेव तथापि मनो यदि पार्थिवं स्यात् गन्धादिषु गन्धस्यैव ग्राहकं स्यादित्यर्थः । अन्यथेति । यदि प्रतिनियतगुणग्राहकत्वनियमो न स्यात् तदा पार्थिवस्यैव रसादिव्यञ्जकत्वान्न भिन्नजातीयमिन्द्रियं सिद्ध्येदित्यर्थः | व्यक्त्यभिप्रायेण तु न

न्यायलीलावतीप्रकाशविवृतिः

धनं येनासिद्धिदोष इति भावः । अनित्यत्व इति। आद्यं जलपरमाणुरूपे द्वितीयं जलावयावस्नेहे तृतीयं परमाणुद्वित्वे व्यभिचारवारणाय विशेषणमत्र मूर्त्तगुणासमवायिकारणकत्वं साध्यमित्यभिसन्धानेन द्वितीयव्यभिचारस्थलप्रदर्शनम् । शब्दजेति। 'निरवयवत्वेन' निरवयवेन्द्रियत्वेन । नित्येति । अत्रेन्द्रियत्वमपि विशेषणम् । श्रोत्रत्वमिति | इन्द्रियत्वलक्षणपक्षधर्मावच्छिन्न साध्यव्यापकमिदम् । अन्यथा कालादौ साध्याव्यापकतापत्तेः । आत्मनि शुद्धसाध्याव्यापकत्वादाह - साधनेति । ननु व्यक्त्यभिप्रायेणैवैकपरिशेषः कुतो न व्याख्यात इत्यत आह - व्यक्तीति ।