पृष्ठम्:न्यायलीलावती.djvu/४२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
न्यायलीलावती


कमित्युत्तरोत्तरमेकै कवृद्धावर्थविशेष : [१] प्रतीयते । तत्र द्वित्वादिव्यवहार इति चेन्न, एकत्ववीप्सा होकैकत्वम् । सा चैकत्वनानात्वमात्रं सर्वसाधारणम् । आरोपितमनारोपितं वा द्वित्वादिक[२] मनाश्रित्य न विचित्रव्यवहारहेतुरित्यतोविशेषात् । तथाप्यपेक्षाबुद्धेरवैचित्र्ये कार्यविशेषानुपपत्तौ तुल्य [३] व्यवहारानुपपत्तिरिति चेन्न, विषयावैचित्र्येऽपि स्वभाववैचित्र्यात् । विचित्रकार्यजनकत्वात् । धूमज्ञानस्य विषयाभेदेऽपि [४][शक्तिवै-


न्यायलीलावतीकण्ठाभरणम्

चेतुष्ट्वाघपि निर्वाच्यमित्यर्थः । परार्द्धपर्य्यन्तमेकैकपदावृत्तिरशक्या ऽतो वीप्सित मेकत्वं वाच्यं तच्चाविशिष्टमेवेत्याह-नेति । इत्यतो विशेषाद् द्वित्वाद्यवश्यमङ्गीकार्यमित्यर्थः । यद्वा इत्यतो विशेषान्नैकैकपदबुघ्घा त्वदभिमतसिद्धिरित्यर्थः । यद्वा अविशेषादित्यकार: प्रश्लेषः । नम्बपेक्षाबुद्धिरपि द्वित्वाद्युत्पादिका न झोकत्वसमूहालम्बनमात्रं तदा समूहाविशेषाद् द्वित्वत्रित्वादिलक्षणकार्थ्यवैलक्षण्यानुप पत्तिरित्याह- तथापीति । एकत्वसमूहालम्बनमविचित्रमपि विचित्र. कार्य्यकारि स्यादेवेत्याह - नेति । अत्रैव दृष्टान्तमाह - धूमेति । संस्कारा-

न्यायलीलावतीप्रकाशः

त्यर्थः । 'अविशेषात्' द्वित्वादिव्यवहारोपाघेरित्यर्थ: । ननु नानैकत्व गोचरत्वाविशेषऽपि यादृश्यपेक्षावुद्धिद्वित्वादिजानिका ताडशी द्वि त्वादिव्यवहारहेतुरित्याह - तथापीति | स्वभाववैचित्र्यादिति । ननु विषया वैचित्र्येऽप्यपेक्षाबुद्धेर्विचित्रकायें जननानुकूलः कश्चिद्विशेषो न जा तिरूपः साक्षात्कारित्वादिना परापरभावानुपपत्तेः । न च गुण- [गतजातौ न ? ] परापरभावानुपपत्तिः, दूषकतावीजसाम्यात् । न चापेक्षाबुद्धेरे कत्वमात्रविषयत्वेऽपि कार्ये प्रागभावाधीनो विशेषः यावति द्वित्वप्रागभावस्तावति द्वित्वमेवं त्रित्वादावपीति वाच्यम्, प्रा-

न्यायलीलावतीप्रकाश विवृतिः

जातिव्याप्यानीत्यनुमानाद्वा जातित्वेनैव सत्तासिद्धेरित्यर्थः । प्राग-


  1. सैकं सैकैकमित्येकैकपदवृद्ध्या योऽर्थषिशेषः । सैकं सैकमित्युत्तरोत्तर मेकैकबुव्घा योऽर्थविशेषः।
  2. द्वित्यादिव्यवहारमना० ।
  3. तुल्या व्य० ।
  4. विषयावैचित्र्यभेदेऽपि ।