पृष्ठम्:न्यायलीलावती.djvu/४२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


चित्र्याद्] धूमविषयक संस्कारदहन ज्ञानजनकत्ववत् । तन्निबन्धन


न्यायलीलावतीकण्ठाभरणम्

नुमित्योरे कदैवोत्पादादित्यर्थः । तन्निबन्धन इति । अपेक्षाबुद्धिस्व

न्यायलीलावतीप्रकाशः

गभावेतर कारणाविशेषे तदविशेषस्याऽध्यापाद्यत्वात् । न चैकत्वे पूर्वोत्पन्न द्वित्वाद्या रोपादपेक्षाबुद्धेवैषयिक एव विशेषः, स्वारसिकस्य विशेषस्य सर्वत्रासिद्धेः । तद्धेतुदोषस्या सार्वत्रिकत्वात् । आहार्यस्य तस्य त्रित्वादिष्वपि सम्भव इति । मैवम् । एकत्वाद्यपेक्षाबुद्ध्योरसमवायिनिमित्तकारणयोरविशेषेऽपि समवायिकारणभेदेन विशेषात् तद्विशेषस्योभयसिद्धत्वात् ।

 द्वित्वे भिन्नैकत्वबुद्धेर्जनकत्वं त्रिवादौ द्विवादिसहितै कत्वबुद्धिर्जनिकेति निमित्तभेदाद्भेद् इत्यन्ये ।

 'शक्तिवैचित्र्यात' स्वभाववैचित्र्यादित्यर्थः । तन्निवन्धन इति । स्व-

न्यायलीलावतीप्रकाशविवृतिः

भवितरेति । यद्यपि प्रागभावभेदादपि पाकजरूपादिभेदो दृष्ट एव तथापि त्रित्वोत्पत्तिकाले द्वित्तोत्पत्तिस्स्यात्तदा द्वित्वप्रागभावावश्यकत्वादिति भावः । तद्धेतुदोषस्येति । न च विषय एव दोषः स च सार्वत्रि क एवेति वाच्यम्, तथा सति सर्वत्र सर्वसंख्या रोपापत्तेरनियमापत्तिरिति भावः । एकत्वा [ द्य ? ]पेक्षाबुज्योरिति । इदमभ्युपेत्योक्तम् । वस्तुतो यदि समवाविभेदस्तदा व्यञ्जकत्वलक्षणासमवायिभेदस्तद्गोचरापेक्षा वुद्धिरूपनिमित्तभेदश्चावश्यकोऽन्यथा समवायिभेदस्वाऽध्यभावादित्यपि द्रष्टव्यम् । कारणव्यक्तिन्यूनाधिकत्वं न कार्यवैजात्यप्रयोजकं तन्तुद्वयारब्धपटापेक्षया तन्तुत्रया रब्धपटवैजात्यादर्शनात् । तथापि द्वित्वाश्रयीभूतयावद्भव्यत्वादिनैव द्वित्वादिकारणतेति समवायिकारणतावच्छेदक मेदोऽप्यस्त्येव । एवञ्च द्वित्वस मानाधिकरणयावदेकत्वेनासमवायिकारणता यावत्तद्गोचरापेक्षाबुद्धित्वेन च निमित्तकारणतेति सामग्रीभेद इति तात्पर्यम् ।

 प्रभाकरोपाध्यायमतमाह --द्वित्वे भिन्नेति । द्वित्वादेरजनकत्व सिद्धान्तभङ्गापत्तेः । सेनावनादौ शतत्वादिसंख्योत्पत्तौ न्यून संख्यानुत्पत्तेक्ष्चारुचि प्रकाशयत्यन्य इति । तत्किमशक्य एव सङ्केतग्रह इत्यत