पृष्ठम्:न्यायलीलावती.djvu/४३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
न्यायलीलावती


एव द्वित्वादिव्यवहारोऽस्त्विति [१] चेन्न, विचारासहत्वात् । स हि सत्तया व्यवहारभेदमुत्पादयेत् ज्ञातो वा । नाद्यः । अतिप्रसङ्गात् । न द्वितीयः । तन्निरूपकस्य द्वित्वादेरसम्भवात् [२] | व्यवहारेण तन्निरूपितमिति [३] चेन्न, तस्मिन्ननिरूपिते व्यवहारां- सिद्धेः[४] । न ह्येतन्निरूपितविषय विशेषव्यवहारनिष्पत्तिर्नाम [५] । द्वित्वादिकं कथमुत्पद्यत इति चेत् । सत्तयैवेति [६]


न्यायलीलावतीकण्ठाभरणम्

भावनिबन्धन एवेत्यर्थः । स हीति । अपेक्षाबुद्धिस्वभाव इत्यर्थः । अतिप्रसङ्गादिति । विषयगतद्वित्वदर्शननैरपेक्षेण द्वित्वादिव्यवहारप्रसङ्गादित्यर्थः । तन्निरूपकस्येति । अपेक्षा बुद्धिविचित्र स्वभावनिरूपकत्वं द्वित्वादेरेव वाच्यं तच्च त्वया नेष्यत इत्यर्थः | असम्भवादिति । त्वन्मत इति शेषः। ननु द्वित्वादिकं विनाऽप्यपेक्षाबुद्धिवैचित्र्यमुन्नेष्यत इत्याह - व्यवहारेणेति । अपेक्षाबुद्धिवैचित्र्यनिरूपणाधीन एव द्वित्वादिव्यवहारः, द्वित्वादिव्यवहारेण च तन्निरूपणमित्यन्योऽन्याश्रय इत्याह – नेति । एतदेवाह - न हीति । ननु तवाप्यन्योऽन्याश्रयो न हि द्वित्वादिविशेषमनालम्बमानया अपेक्षाबुघ्घा द्वित्वादि जन्यते अतिप्रसङ्गादित्यर्थः । द्वित्वादिकमिति । अनाकलित एव एकत्वसमूहालम्बनविशेषो द्वित्वाघुत्पाइक इति नान्योऽन्याश्रय इत्याह - सत्तयेति । तर्हि द्वित्वादित्रित्वादीनां कार्याणां कथं वैचित्र्यं निमित्तासमवायिकारणयोरवैचित्र्यादिति चेन्न, समवायिकारणवैचित्र्यादेव तदुपपत्तेः । न हि यावति द्वित्वमनुभूयते तावत्येव त्रित्वमिति तवाण्यभ्युपगमः । प्रागभावभेदाद्वा पाकज-

न्यायलीलावतीप्रकाशः

भाववैचित्र्य निबन्धन इत्यर्थः । स हीति । अपेक्षा वुद्धेर्विचित्रः स्वभाव इत्यर्थः । अतिप्रसङ्गादिति । विषयवृत्तिद्वित्वादिप्रतिसन्धाने सति ताहग्व्यवहारदर्शनात् कथमपेक्षाबुध्द्युत्पत्तिमात्रेण व्यवहार इति भावः । तन्निरूपकेति । ज्ञानगतजातिविशेषनिरूपणेऽपि द्वित्वादेर्विषयगतत्वाप्र


  1. ० रोऽयमिति ।
  2. ०दरभावात् ।
  3. तनिरूपण मिति ।
  4. रानुपपत्तेः ।
  5. न ह्यनिरूपितविषयावशेषाव्यवहारनिष्पत्तिर्नाम ।
  6. सत्तयेति ।