पृष्ठम्:न्यायलीलावती.djvu/४३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५७
व्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता

गृहाण | उभयाश्रितं च द्वित्वं स्वरूपतोऽभिन्नमवभासते । न चैषाऽभेदप्रतीतिर्भ्रान्ता अबाधितत्वात् । अन्यथा गोत्वव्यञ्जकपिण्डैरे [१]वानुगताकारप्रतीत्युपपत्तौ जातेरपि विलयापत्तेः । शब्दसमवाया [२] नुपपत्तिस्तुभयपक्षसाधारणी नैकत्र पक्षपात मवलम्बते । तदिदं [३] चिरन्तनवैशेषिक मतदूषणं भूषण-

न्यायलीलावतीकण्ठाभरणम्

रूपरसगन्धस्पर्शानामिवेति भावः। द्वित्वादावनुभवं प्रमापयति - उत्तरा ( मया ?) श्रितमिति | द्वित्वादि व्यासज्यवृत्तित्वनानुभूयमानं अपेक्षाबुद्धिमात्रेण समुच्चयेन वा अन्यथासिद्धं कर्ते न शक्यत इत्यर्थः । यद्यजनकं व्यञ्जकं वा तेनैव तदन्यथासिद्धौ विपक्षदण्डमाह - अन्यथेति । ननु यदपेसाबुद्ध्या यद् द्वित्वं जनितं तन्मात्रेणैव तद्ग्रहे परः सङ्केतः कथं ग्राहयि तव्य इत्यत आह - शब्दसमयेति | अपेक्षाबुद्धिरपि द्वित्वादिव्यवहारजनिका परस्य परोक्षवेति तद्विशेषप्रतिपादनमशक्यमेवेति भावः । यद्वा गोत्वादिकं गवादिपदसङ्केत प्रहार्थमवश्यमभ्युपगन्तव्यमिति यदि तदा द्वित्वादिपदसङ्केत ग्रहार्थं द्वित्वत्वादिजातिरपि स्वीकर्त्तव्येति तदाश्रयो गुणो द्वित्वादिरप्यवश्यमभ्युपगम्य इत्यर्थः । तदिदमिति । एकत्वसमुच्च-

न्यायलीलावतीप्रकाशः

तिसन्धाने व्यवहारो न स्यादित्यर्थः । उभयाश्रितं चेति । व्यासज्यवृ॰ त्तित्वेन द्वित्वादेरनुभवोऽपि न तादृशात् स्वभाववैचित्र्यादित्यर्थः । ननु यदपेक्षाबुद्धिजन्यं यद् द्वित्वं तस्य तदेकग्राह्यत्वात् कथं तव सङ्केत ग्रह इत्यत आह -- शब्दसमयेति । अपेक्षा बुद्धिजन्याद्वत्वव्यवहारप-' क्षेऽप्ययं दोषस्तदवस्थस्तस्या अपि समवायिमात्रवेद्यत्वात् | अस्माकं तु द्वित्वत्वजातिपुरस्कारात् सुग्रहः समय इत्यर्थः । सम्प्रदायविदस्तु ननु गोत्वव्यञ्ज कसा स्नादेरननुगमान्न जाति विना सङ्केतग्रह इत्यत आह - शब्दसमयेति । द्वित्वाद्यनुगतं विना शब्दस

न्यायलीलावतीप्रकाशविवृतिः

आह - अस्माकं त्विति । संख्या ।


  1. ० रेव गधाका० ।
  2. शब्दसमयानुपपत्तिरिति प्रकाश - कण्ठाभरणसम्मतः पाठः ।
  3. सदेतदिति प्रकाशधृतः पाठः ।