पृष्ठम्:न्यायलीलावती.djvu/४३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
न्यायलीलावती


[१]कारस्यातित्रपाकरम् । तदियमनाम्नातता भासर्वज्ञस्य यदियमाचार्यमण्यवमन्यते । तथा च तदनुयायिनस्तात्पर्याचार्यस्य सिंहनादः- “संविदेव भगवती" त्यादि । [इति]संख्या ।

 परिमाणं मानव्यवहारकारणम् । ननु कः पुनरयं मानव्यवहारः | हस्तवितस्त्यादिव्यवहारो वा अणुमहदादिव्यवहारो वा असर्वगतव्यवहारो वा परिमितव्यवहारो वा नाद्यः । अननुगतत्वेनासामान्यलक्षणत्वात् । परमाणौ परममइति चाभावात् । न द्वितीयः । सर्वपरिमाणसाधारणत्वाभावात् । न तृतीयः । अविभुत्वेनैवोपपत्तेः । व्यापक परिमाणे चाभावात् ।


न्यायलीलावतीकण्ठाभरणम्

येनापेक्षा बुद्धिवैचित्र्येण वा द्वित्वत्रित्वादिसमर्थन मित्यर्थः । तत्र चास्मदुक्तयुक्तरखण्डनादिति भावः ।

 परिमाणमिति । परिमितमिदमिति व्यवहारो यत इत्यर्थः । अननुगतत्वेनेति । हस्तवितस्त्यादीत्यत्रादिपदस्य प्रकारवाचित्वम् । प्रकारश्च परिमाणत्वमसिद्धमन्यथा चाननुगम इत्यर्थः । अनुगतोऽप्ययमव्यापक इत्याह - परमाणाविति । सर्व्वेति । न हि परमाणुषु गगने वा कस्यचित्तथा व्यवहार इत्यर्थः । तथा च भागासिद्धिरिति भावः । अविभुत्वेनेति । अविभुद्रव्यत्वेनैव मूर्त्तव्यवहारोपपत्तेरिति भावः ।

न्यायलीलावतीप्रकाशः

ङ्केतोऽत्रापि न स्यादिति तुल्यमित्यर्थः । तदतेदिति । द्वित्वादेः सामान्यरूपत्वस्वीकर्तृत्वं विषयविशेषादेवापेक्षाबुद्धेर्विशेष इति चेत्यर्थः ।

 परिमाणमिति । त्रयोविंशतिगुणा विषयकोगुणविषयकः प्रत्ययो यत इत्यर्थः । तं विकल्प्याक्षिपति - - नन्विति । सर्वेति । अनुगतमेकं प्रकारं विना आदित्वस्यक स्याज्ञानादित्यर्थः । अविभुत्वेनैवेति । तञ्च न लक्षणं

न्यायलीलावती प्रकाशविवृतिः

 ननु परिमाणत्वजातेरसिद्धौ परिमाणमितिधर्मिनिर्देशानुपपत्तिः सिद्धौ च तदेव लक्षणमस्त्वित्यत आह --- त्रयोविंशतीति । तच्चेति । तद्ध-


  1. दूषणका० । भूषणकारस्यापि त्रपा० ।