पृष्ठम्:न्यायलीलावती.djvu/४३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५९
न्यायलीलावतीकण्ठाभरण-सविष्वृतिप्रकाशोद्भासिता


न तुरीयः, महव्घवहारस्यैव परिमितव्यवहारत्वात् । सर्वपरिमाणाव्यावर्त्तकत्वात् [१] । अणुत्वेऽपि परिमितव्यवहारोऽस्तीति चेन्न, परिमाणत्वजातेरसिद्धावणुत्वस्यै [२]वासिद्धेः । अणु-


न्यायलीलावतीकण्ठाभरणम्

महद्र्व्यवहारस्यैवेति । महत्त्व मात्रैणैव परिमितव्यवहारादित्यर्थः । सर्वेति । अणुपरिमाणाव्यापकत्वादित्यर्थः । अणुत्वेऽपीति । आनुमानिकस्तत्रापि परिमितव्यवहारोऽस्तीति नाव्यापकत्वमित्यर्थः । अणुत्वं हि परिमाणत्वव्याव्यजातिस्तथा च परिमाणत्वमेव न सिद्धं कुतस्तव्द्याप्यजातिरित्याह – नेति । अणुपरिमाणेति । यद्यपि अणुत्वासिद्धौ तदन्तर्भा-

न्यायलीलावतीप्रकाशः

परिमाणापरिमाणसाधारण्यादिति भावः । सर्वपरिमाणाव्यापकत्वादिति । त्वया परमाणुपरिमाणस्यापि पक्षीकरणे तत्र हेतोरवृत्त्या भागासिद्धेरित्यर्थः । अणुत्वेऽपीति । परीक्षकाणां महद्यवहारभिन्नोऽपि परिमितव्यवहारोऽस्तीत्यर्थः । यद्यपि परिमाणत्वजातिसिद्धावपि नाणुत्वसि द्धिस्तथापि परिमाणत्वं महत्त्वभिन्ननित्यवृत्ति सकलपरिमाणवृत्ति जातित्वादिति यदि साध्यते तत्राह - परिमाणत्वजातरिति । अणुत्वसाध कमानस्य परिमाणत्वजात्युपजीवकत्वादित्यर्थः । तदेव प्रयोगदुषणा-

न्यायलीलावतीप्रकाशविवृतिः

टितमविभुत्वव्यवहारकारणत्वमिति यावत् । यद्यपीति । यद्यपि परिमाणत्वजातेरसिद्धाविति मूलस्य परिमाणत्वसिद्धावणुत्वं सिघ्घत्येवेति नियमपर्यन्तं नार्थो येनेदमनियमप्रदर्शनमुपालम्भाय, केन्तु तत्सिद्धावणुत्वं सिद्ध्यतीत्येव मूलाभिप्राय इत्ययुक्तमेतत्तथापि मूलस्य नियमपरत्वाभिसन्धानेनायमाक्षेपः । वस्तुतः परिमाणत्वजातेर सिद्धावण्यणुत्वसिद्धिरित्येव नव्यत्यासेनार्थ इति भवति यथोक्ताभिप्रायाक्षेपः । तथापीति । यद्यपि परिमाणत्वाघटितस्याणुपरिमाणसाधकस्यानुपदं मूलकृतैव प्रदर्शनीयत्वादिदमयुक्तं तथापि तन्मूलस्या ऽप्युक्तानुमाने एव तात्पर्य मन्यथाश्रयासिद्धेरित्यभिसन्धायैतदुक्तम् । अत एव वक्ष्यति स्फुटयतीति इति यदीति । परिमाणभित्रवृत्तित्वोपाध्यप्रतिसन्धान इति शेषः । गुणत्वावितरता ( गुणत्वापरजा ?) त्येत्यत्र


  1. ०णाव्यापकत्वात् ।
  2. द्धावणुत्वव्यवहारस्यैवा० ।