पृष्ठम्:न्यायलीलावती.djvu/४३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
न्यायलीलावती

परिमाणतारतम्यं क्वचिद्विश्रान्तम्, परिमाणतारतम्यत्वात्, महत्परि [१] माणतारतम्यवत् इति तत्सिद्धिरिति चेत् [२], परिमाकिमणुमहत्साधारण [३] परिमाणजातीयतारतम्यं महत्त्वतारतम्यं वा विवक्षितम् । नाद्यः असिद्धेः । नेतरः, सिद्धसाधनात् । त्र्यणुकोपादानं परिमाणव त्, द्रव्यत्वात् घटवदिति तत्सिद्धिरिति चेन्न, परिमाणजातीयतामात्रस्य व्यापकस्यासिद्धौ प्रतिबन्धस्यासिद्धेः । गुरुत्वावच्छेदादौ च परिमितव्यवहारदर्शनात् । ततो भेदकमानाभावान्न भिद्यते ।

 अत्रोच्यते । त्र्यणुकोपादानं गुणत्वापरजात्या महत्त्वैकजा-


न्यायलीलावतीकण्ठाभरणम्

वेन पक्षासिद्धिस्तथापि कुवलयापेक्षया आमलकमण्विति व्यवहारबलाद् यदणुत्वं सिद्धं तदादाय पक्षतेति भावः । क्वचिद् विश्रान्तमिति । अणुतमं किञ्चिदस्तीत्यर्थः । परिमाणतारतम्यत्वादिति । परिमाणगोचरतरतमव्यवहारविषयत्वा दित्यर्थः । परिमाणत्वासिद्धौ तारतम्य मप्यसिद्धमेवेति पूर्वदोष एवात्रापीत्याह- परिमाणतारतम्यमिति । अवान्तराणुत्वं तावत् साधयति - त्र्यणुकेति । यत्र द्रव्यत्वं तत्र परिमाणमिति सामान्यव्याप्तिस्तदा गृह्येत यदि व्यापकतावच्छेदकं परिमाणत्वं सिद्धं स्यात्तदेव तु न सिद्धमित्याह ~~-नेति । ननु परिमितव्यवहारेणैव परिमाणत्वं सिद्धं स्यादित्याह- गुरुत्वेति । त्र्यणुकोपादानमिति | गुण-

न्यायलीलावतीप्रकाशः

भ्यां स्फुटयति — अणुपरिमाणेति । सिद्धसाधनादिति ।अपकृष्टमहत्त्वतारतम्यस्यैवाणु परिमाणतारतम्यात्मकत्वात्तस्य च त्रुटावेव विक्ष्रामादित्यर्थः । त्र्यणुकोपादानमिति । न चात्र महत्त्वमुपाधि महत्त्वं यदि परिमाणमात्रं विवक्षितं तदा साधनव्यापकत्वात्, परिमाणत्वव्याप्यजातिश्चेत्तदाऽणुत्व स्वीकारात् । परिमाणजातीयतेति । व्यापकतावच्छेदकरूपग्रहं विना व्यापकत्वाग्रहे तन्निरूपित्तव्याप्त्यग्रहादित्यर्थः । ननु परिमाणवदिति साध्यस्य परिमितव्यवहारहेतुगुणवदित्यर्थ इत्यत आह - गुरुत्वेति । तथा चार्थान्तरत्वमिति भावः । व्यणुकोपादानमिति ।


  1. महापरिमा० ।
  2. चैत्र ।
  3. ० महत्परिमाणजा ।