पृष्ठम्:न्यायलीलावती.djvu/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


तीयगुणवत् द्रव्यत्वात् घटवत् । ननु किं महत्त्वजात्या एकजातीयगुणवत्वं साध्यं जात्यन्तरेण वा । नाद्यः, अपसिद्धान्तात् । नेतरः, असिद्धेः । नानामहत्वसाधारणजातिमात्रेणेति ब्रूमः । न


न्यायलीलावतीकण्ठाभरणम्

त्वव्याप्यजात्या महत्त्वेन सह एकजातीयो यो गुणस्तद्वदिति साध्यार्थस्तथा च तत्र महत्त्वस्य बाधे परिमाणत्वजातिमान् गुणः सिध्यति तदेव चाणुत्वमिति भावः । घटे च महत्त्वमेव तथेति दृष्टान्तः ।

 ननु गुणत्वापरजात्योपविवेक्तुमर्हति अन्यथा साध्याप्रसिद्धिरित्याह--नन्विति । अपसिद्धान्तादिति । त्र्यणुकोपादाने महत्त्वानभ्युपगमादित्यर्थः । असिद्धेरिति । जात्यन्तरं परिमाणत्वमेव वक्तव्यं तञ्चासिद्धमित्यर्थः । नानामहत्त्वेति । तच्च परिमाणत्वं महत्त्वं वास्तु [१] साधारणोक्तैव परिमाणत्वाणुत्वयोः प्रकृते पक्षधमंताबलात् सिद्धिरित्यर्थः । पक्षधर्म्मताबलमेवाह -- न चैवमिति । पर्थ्यवसितसाध्यमुपसंह-

न्यायलीलावतीप्रकाशः

महत्वनिष्ठात्यन्ताभावाप्रतियोगिगुणत्वव्याप्यजातिमद्गुणवत् महत्त्ववृत्तिगुणत्वसाक्षाव्घाप्यजातिमद्गुणवदिति वाऽर्थः । न च महत्त्वमुपाधि: तुल्ययोगक्षमत्वात् । सम्प्रदायविदस्तु महत्त्वं साक्षात्कारविरोधिजातिसमानाधिकरणगुणत्वसाक्षाड्याव्यजातिमत् साक्षात्कारप्रयोजकमूर्त्तगुणत्वात् रूप

न्यायलीलावतीप्रकाशविवृतिः

तृतीयार्थासङ्गतेराह -महत्त्वनिष्ठेति । अभावान्तर्भावे गौरवादाह-महत्ववृत्तीति । अत्र साक्षात्पदं भेदलाभाय । साक्षात्कारविरोधीति । साक्षात्कारविरोधिनी जातिरणुत्वं तत्समानाधिकरणं परिमाणत्वं तद्वद्गुणवत्वं पक्षधर्मताबलात् सिद्ध्यति । तेनाणुत्व परिमाणत्वयोरपि सिद्धिः । साक्षात्पदं च पूर्ववन् । व्योममहत्त्वसमानाधिकरणमहत्त्वत्वमादायार्थान्तरमिति प्रथमजातिपदम् । परममहत्त्वत्वमादायार्थान्तरमिति साक्षात्कारविरोधीति । गुणत्वमादायार्थान्तरमिति गुणत्वव्याप्येति । महत्त्वानुद्भूतरूपान्यतरत्वमादायार्थान्तरमिति द्वितीयजातिपदम् । साक्षात्कारेति । द्रव्यसाक्षात्कारेत्यर्थः । अन्यथा


  1. नच परिमाणत्वं वस्त्विति क्वचित् पाठः ।