पृष्ठम्:न्यायलीलावती.djvu/४३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६२
न्यायलीलावती


चैवं तत्र महत्त्वस्यैव सिद्धिः । परमाणोरपि दृश्यतापत्तेः । ततो महत्त्वाणुत्वसाधारणी जाति: परिभाणत्वं सिद्ध्यतीति । गुरुत्वाव-


न्यायलीला वतीकण्ठाभरणम्

रति - - तत इति । परिमितव्यवहारात् परिमाणत्वसिद्धौ गुरुत्वेनार्थान्तरं परिहरति-- गुरुत्वेति । निरूपितस्तु वादिना निर्णीतस्तदवच्छे-

न्यायलीलावतीप्रकाशः

वत् । न च परममहत्त्वं तथा आत्मनोऽसाक्षात्कारापत्तेः । न च रूपत्वमुपाधिः तुल्ययोगक्षेमत्वात् ।

न्यायलीलावतीप्रकाशविवृतिः

स्वसाक्षात्कारप्रयोजक संयोगादौ व्यभिचारतादवस्थ्यात् । मूर्त्तपदं च सुखादौ व्यभिचारवारणाय विशेषगुणविशिष्टस्यैवात्मनः प्रत्यक्षतया सुखादेरपि तत्प्रयोजकत्वात् । गुणपदं च अनेकद्रव्यवत्वघटकतयाऽवयवस्यापि साक्षात्कारप्रयोजकतथा तत्र व्यभिचारवारणाय । न च सजातीयसंयोगस्य दूरस्थकेशसाक्षात्कारप्रयोजकतया तत्र घटचक्षुःसंयोगे व्यभिचार इति वाच्यम्, प्रयोजकपदस्य कारणतावच्छेदकार्थत्वात् । अ (भ ? ) वति च द्रव्यसाक्षात्कारं प्रति रूपमहत्त्वे तथा, न तु संयोग इति मिश्राः । तदयुक्तम् । तथा सति द्रव्यपदप्रक्षेपानुपपत्तेः ।

 कोचित्तु बहिर्द्रव्यत्वावच्छिन्न साक्षात्कारप्रयोजकत्वादित्यर्थ इति वदन्ति । तदप्ययुक्तम् । मूर्त्तपदवैयर्थ्यात् । तस्मात्स्वसहकारिकेन्द्रियजन्ययावद्रव्यसाक्षात्कारजनक मूर्त्तगुणत्वात् मूर्त्तपदव्यत्या सेन मूर्त्तसाक्षात्कारकारणतावच्छेदकगुणत्वादिति वा हेतुरिति दिक् ।

 रूपवदिति । तत्राप्युद्भूतत्वमादाय साध्यगमनम् । न च (परम?) महत्त्व मिति । पर (म?) महत्त्वत्वमित्यर्थः । क्वचित्पाठ एव तथा । तथेति । साक्षा त्कारावरोधीत्यर्थः । तथा च न तदादाय सिद्धसाधनमिति भावः । आत्मन इति । तत्परिमाणस्य चेति शेषः । तथा च न स्वाश्रयाश्रयसा क्षात्कारविरोधित्वं न वा स्वाश्रयसाक्षात्कारविरोधित्वमिति भावः । न च रूपत्वमिति । न च स्पर्शरसादौ साध्याव्यापकत्वं स्पर्शान्यसाक्षात्कारकारणतावच्छेदकत्व लक्षणपक्षधर्मावच्छिन्न साध्यव्यापकत्वात् । तुल्ययोगक्षेमत्वादिति । अत एव प्रत्यक्षत्वावच्छिन्नसाध्याव्यापक-