पृष्ठम्:न्यायलीलावती.djvu/४३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
न्यायलीलावती


मानात् । मैवम् । अवयववहुत्वमात्रं वा महदितिप्रत्ययगोचरबहुत्वविशेषो वा । सोऽपि निर्द्धारितोऽनिर्द्धारितो वा । नाघः, महदल्पसाधारणत्वात् । न द्वितीयः, अवयवबहुत्वेयत्तानिश्चयेऽपि घटादौ महदिति प्रत्ययात् तन्निरूपकमानाभावाच्च । न तृतीयः, महत्त्व प्रकर्षाप कर्षप्रतीत्यनुदयप्रसङ्गात् । प्रचुरदेशव्यापकत्वात्तदनुमानमिति चेत्, न तद्देशप्राचुर्यस्यापि निश्चायकमानाभावात् । तत्रापि प्रचुरदेशान्तरव्यापकत्वानुमाने [१]ऽनवस्थानात् । कथं तर्हि घटादेः मचुराप्रचुरदेशव्यापकत्व प्रतीतिः । महत्त्वोत्क-


न्यायलीलावतीकण्ठाभरणम्

रिन्द्रियजद्रव्यप्रत्यक्ष इति । तेनात्मप्रत्यक्षे न व्यभिचारः । सोऽपीति । बहुत्वविशेष इत्यर्थः । निर्द्धारित इति । एतावद्भिरेवावयवैरिदं द्रव्यमारब्धमिति निर्घ्दारित इत्यर्थः । महदल्येति । महतो घटादेरल्यस्यापि मसकादेर्भूयोऽवयवारब्धतया महत्त्वविशेषप्रत्ययो न स्यादित्यर्थः । ननु निर्घ्दारितो बहुत्वविशेषो महत्त्वव्यवहारहेतुरिति दूषयति--- न द्वितीय इति । ननु तत्रापि बहुत्वनिश्चय एवेत्यत आह -- तन्निरूपकेति । अनिर्द्धारितावयवबहुत्वं दूषयति - न तृतीय इति । महत्वेति । बहुत्वविशेषस्थानिर्द्धारितत्वेनाविशेषादित्यर्थः । तदनुमानमिति | बहुत्वविशेषानुमानमित्यर्थः । महत्त्वानुमानं वा । तद्देशेति | महत्त्वं विना तद्देशप्राचुर्य्यमपि निर्वक्तुमशक्यमित्यर्थः । तत्रापीति | प्रचुरदेशेऽपि प्रचुरदेशानुमानमित्यर्थः । ननु घटः प्रचुरदेशः कुवलयं न प्रचुरदेशमिति कथं प्रतीतिर्यदि न तत् प्रत्यक्षमित्याह - कथमिति । महत्वेति ।

न्यायलीलावती प्रकाशः

न तु द्रव्यप्रत्यक्षतामात्रप्रयोजकम्, आत्मनोऽप्रत्यक्षतापत्तेः । यद्यपि यवयवजन्यावयविन्यवयवबहुत्वं व्यभिचरति तथापि स्फुटत्वात्तदुपेक्ष्यान्यदाह–अवयवेति । 'प्रचुरदेशव्यापकत्वात्' प्रचुरावयवसमवे. तत्वादित्यर्थः । अवयवबहुत्वेन महत्त्वव्यवहारोपपादने दूषणमाह--

न्यायलीलावतीप्रकाशविवृतिः

खेनेति शेषः । यद्यपीति । साक्षात्परम्परासाधारण्या [२] वयवबहुत्ववि-


  1. ०शान्तराभिधानेऽनवस्था ।
  2. ० रणाव० ।