पृष्ठम्:न्यायलीलावती.djvu/४४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

इति बोध्यम् । * *नुपलम्भे व्यभिचारवारणाय चाक्षुषेति । श्रौत्रद्रव्यानुपलम्भे व्यभिचारवारणाय वा । इन्द्रियासन्निकृष्टे व्यभिचारवारणाय इन्द्रिय सन्निकृष्टेति । यद्यपि सर्वत्र गुणविशेषविपर्थ्ययाधीनत्व मस्त्येवान्धकारे वाह्यालोकरूपाभावः, अन्तत इन्द्रिय संयोगाभावात्ममनः- संयोगाभावस्य वा सत्त्वात् तथापि गुणविशेषविपर्य्ययाधीन इति गुणविशेषविपर्थ्ययप्रयोज्य इत्यर्थः । यद्वा द्वयणुकं चाक्षुषसाक्षात्कारासाधारणकारणैकगुणाभाववत् चक्षुरयोग्यत्वादिति विवक्षितम् । अयोग्यत्वादित्येव वा विवक्षितम् ।

न्यायलीलावतीप्रकाशः

अन्धकारेऽनुपलम्भवारणार्थं सालोकेति । ननु चक्षुरिन्द्रियानुपलम्भे नेदमनैकान्तिकम् [१] । अथ यादृशो गुणविशेष उपलम्भाव्यभिचारी तादृशस्तत्रापि नास्त्यंव । तर्हि गन्धानुपलम्भेन व्यभिचारवारणाय विशेषणं व्यर्थम्, तत्रापि ताडशगुणाभावस्य वकतुं शक्तत्वात् । किञ्चादृष्टविपर्ययाधीनत्वेन दूरसाक्षात्कारे माषराश्यादौ संयोगविशेषस्यापि साक्षात्कारकारणत्वदर्शनात्तदभावेन वाऽर्थान्तरम् । मैवम् । व्घणुकं चाक्षुष साक्षात्कारासाधारणकारणैकवृत्तिगुणाभाववत् आलोकेन्द्रिय सन्निकृष्टत्वे सत्यचाक्षुषत्वादिति विवक्षितत्वात् ।

न्यायलीलावतीप्रकाशविवृतिः

स्तथा सत्ययमर्थो व्यक्त एव । नच चाक्षुषपददानेऽपि श्रोत्रेन्द्रियानुपलम्भेन चाक्षुषेण व्यभिचारः, तत्र रूपाभावेन साध्यसत्त्वात् । सलौकिकेति । ( सालोकेतीति ? ) न च संयोगाभावधीनतया (साध्य ? ) सत्त्वादेव न तत्र व्यभिचार इति वाच्यम्, साध्येऽव्यासज्यवृत्तित्वस्य गुणे विशेषणत्वात् । अन्यथाऽदृष्टवदात्मसंयोगव्यतिरेकाधीनत्वेनार्था न्तरमाकर एव वक्ष्यति । न चैवं व्यासङ्गे व्यभिचार, मनः सयुक्तत्वेनापीन्द्रियाविशेषणात् । तत्रापीति । उद्भूतत्वविशिष्टगन्धे विपर्य्ययाधीनत्वस्य गन्धानुपलम्भेऽपि सत्वादित्यर्थ: । ननु स्वविषयनिष्ठो यो गुणविशेष विपर्थ्य यस्तदधीनत्वं साध्यमिति नोक्तदोषः । अत एव मनःसंयुक्तत्व विशेषणदानव्यावृत्तिरपि हेतौ परास्तेत्यरुचेराह — किञ्चेति । यणुकमिति । उद्भूतरूपमिति शेषः । गुणाभाववत्त्वं


  1. रूपमहत्वयोव सत्त्वादिति भावः ।