पृष्ठम्:न्यायलीलावती.djvu/४४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


कृष्टचाक्षुषद्रव्यानुपलम्भत्वात् [१] , पवनानुपलम्भवत् । दीर्घत्वं च उपर्यधोभावा[२] वच्छिन्न प्रचुरदेशव्यापकत्वम् । न चात्रापि प्रचुरदेशव्यापकत्वानुपलम्भो, महत्त्वोत्कर्षेणैव तदनुमानात् । न चेदेवं


न्यायलीलावतीकण्ठाभरणम्

 दीर्घत्वं परिमाणविशेषस्तत्रान्यथासिद्धिमाह - दीर्घत्वं चेति । प्रचुरदेशव्यापकत्वमपि दुरुन्नेयमत आह - महत्त्वेति । ननु महत्सु दीर्घमानीयतामिति निर्द्धारणान्यथानुपपत्त्या दीर्घत्वं परिमाणविशेषः स्यादित्यत आह—न चेदेवमिति । महत्सु दीर्घमानीयतामिति निद्धरणात खर्वत्वादिकमपि स्यादित्यर्थः । यद्यपि खर्व्वत्वं इस्वत्वमेव तथापि त्रिकोण परिमण्डलादिकं ग्राह्यम् । तथा चावयव संयोगविशेषादेव प्रतीते रुपपत्तिरिति भावः । सम्प्रदाये तु परिमाणचातुर्विध्यम् ।

न्यायलीलावतीप्रकाशः

दीर्घत्वविपर्ययाधीनत्वेनार्थान्तरं निराकरोति -- दीर्घत्वं चेति । उपर्यधोभावेति । योग्यतोपलक्षणमिदम् । तदवच्छेदकं महत्त्वं जातिविशेष एव । ननु महत्सु दीर्घमानीयतामिति प्रत्यक्षाद्दर्घित्वं तद्भिनं स्यात् महत्सु लध्वानीयतामित्यनुभवात् तत्कल्पनापत्तेः । यदि चावयवसंस्थानविशेष एव तत्तदा दीर्घत्वमपि तथेत्यभिप्रेत्याह – न चेदेवमिति ।

न्यायलीलावतीप्रकाशविवृतिः

गुणासमवहितत्वमन्यथालोकरूपाभावेन सिद्धसाधनापत्तेः । अदृष्टेनार्थान्तरवारणार्थमसाधारणेति । इन्द्रियसंयोगेनार्थान्तरवारणाय एकवृत्तीति । महत्त्वस्य गुणत्वसिद्ध्यर्थ गुणेति। चाक्षुषसाक्षात्कारकारणयावत्सन्निकर्षसमवहितत्वं सत्यन्तार्थस्तेन व्यासहृदशायामचाक्षुषे घंटे न व्यभिचारः । तत्रापीन्द्रियमनः सन्निकर्षासमवधानात् तिर्यगवस्थिताव्याप्तिरित्याह - योग्यतति । महत्वं जातीति । जातिविशेषविशिष्टं महत्त्वमेवेत्यर्थः । यद्यप्येव दीर्घत्वव्यवहारहेतुरपि तदेवास्तु एकत्रैव प रिमाणे महत्त्वत्वदीर्घत्वत्वव्यवहार इति वदन्ति । तदयुक्तम् । समानाधिकरणपरिमाणस्य परिमाणप्रतिबन्धकतया एकत्र परिमाणद्वयाभावात् । केचित्तु जातिविशेषापेक्षया संस्थान विशेषस्यैव परम्परास-


  1. ०लम्भात ।
  2. धोभागाव ।