पृष्ठम्:न्यायलीलावती.djvu/४४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता

३६९ रूपणत्वात् । अस्य चावधिनिरूप्यत्वात् । आनुशासनिकपञ्चमीविभक्त्यन्तवाचकपदाभिलप्यपानत्वमवधित्वमिति चेन्न, अनधीतशब्दविद्यानां तथाप्रतीतिविरोधात् । दण्डी पुरुष इति [प्रतीति]-


न्यायलीलावतीकण्ठाभरणम्

तीति प्रतीतेर्घटः पटात् पृथगिति विलक्षणा प्रतीतिरेवान्योन्याभावभेदे पृथत्कस्य प्रमाणमित्यर्थः । ननु यदेव प्रतियोगित्वं तदेव अवधित्वं किन्त्वनुशासनबलात् पृथक्शब्दप्रयोगे पञ्चमीत्याह-- आनुशासनिकेति । आनुशासनिकी या पञ्चमी विभक्तिस्तदन्तं यद्वाचकं पदं घटादिति तदभिलप्यमानत्वमित्यर्थः । तर्हि अवैयाकरणानामवधित्वज्ञानं न स्यादित्याह- - नेति । नन्वनधीतव्याकरणा (ना?) मपि यथा दण्डीति प्रत्ययस्तथा प्रकृतेऽपि स्यादित्याह- - दण्डीति । दण्डाधारत्वं

न्यायलीलावतीप्रकाशः

गिति प्रतीतिविषयः पृथक्त्वमवधिनिरूप्यम् । न च अन्योन्याभाव एतद्विषयः, इदमिदं न भवतीतिप्रतीत्यापत्तेः । न च पृथक्शब्दोऽन्योन्याभावाऽर्थकः, अन्योन्याभावस्य प्रतियोगिनिरूप्यत्वात् पृथक्त्वस्य चावधिनिरूप्यत्वादित्यर्थः । ननु पञ्चम्यन्त पदाभिलप्यमानप्रति- योगित्वमेवावधित्वमित्याह - आनुशासनिकेति । पञ्चम्यन्त पदाशानेऽपि पृथक्त्वव्यवहारात् पञ्चमी प्रयोगस्यावधिज्ञानोत्तरकालीनत्वाश्च नैवमित्याह - अनधीतेति । प्रतियोगित्वावधित्वयोरभेदे घटापटो नेत्यपि प्रतीतिः स्यात् । न च घटः पटो न भवतीत्यत्रापि सामानाधि करण्यस्य प्रतीतेर्नशब्दस्याभावप्रतियोगित्ववाचकतया तेनैव प्रति योगित्वस्याभिहितत्वान्न तदर्थिका पञ्चमीति वाच्यम्, नशब्दस्याभावाश्रयवाचकत्वे सामानाधिकरण्योपपत्तेरिति भावः । ननु यथा दण्डी पुरुषो दण्डपुरुष सम्बन्ध इतिप्रतीत्योर्विषयावैचित्र्येऽपि वैलक्षण्यं तथेदमिदं न भवतीदस्मात्पृथगित्यनयोरपि प्रतीत्योस्तत् स्या-

न्यायलीलावतीप्रकाशविवृतिः

घटः पटो नेति । इदमुपलक्षणं घटः पटः (टात् ?) पृथगित्यपि द्रष्टव्यम् । न चानुशासनमेव नियामकं तेन प्रयोगनियमनेऽपि प्रतीत्यनियमात् । न तदर्थैति । ( थिंकेति ? । ) उक्तार्थानामप्रयोगादिति भावः । नशब्दस्येति ।