पृष्ठम्:न्यायलीलावती.djvu/४४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


त्वम् । अन्यपर्यायशब्द सम्बन्धे पञ्चम्यनुशासनव्यवहाराच्च पाणिनेरन्यादिशब्दानां पृथक्त्वगुणयोगिपदार्थप्रतिपादकत्वमुन्नीयते । अन्यथा अघट: पट इत्यन्योन्याभाववाचकनञ् [१] प्रयोगेऽपि


न्यायलीलावतीप्रकाशः

पृथक्वविशेषज्ञानस्य नान्योन्याश्रयः । यद्वा पृथत्कनिरूपकत्वज्ञानं न पृथत्कज्ञानकारणमपि तु यत्रैतद्वर्त्तते तज्ज्ञानमन्यथा प्रतियोगित्वज्ञानेऽव्यन्योन्याश्रयापत्तेः । पारावारवत् पृथक्त्वावधित्वयोः समानसंवित्संवेद्यत्वमित्यप्याहुः । अन्यपर्यायेति । अन्य पर्यायशब्दयोगे पञ्चम्यनुशासनादर्थैक्ये च पर्यायत्वाद् य एवैकोऽर्थोऽन्यादिपदानां तदेव पृथत्कम् । अत एव घटात्पटोऽन्यो भिन्नो विधर्माऽर्थान्तरमितरः पृथगित्यत्र पञ्चमी भवति । न च भेद एव पृथत्कं स चान्योन्याभावो वैधर्म्य स्वरूपभेदश्चेति तद्वाचकयोगे पञ्चमीति वाच्यम्, घटः पटो नेत्यत्र तत्प्रसङ्गात् । न च भेदवद्वाचकयोगे पञ्चमी, अघटः पट इत्यत्रापि तत्प्रसङ्गात् । घटः पटो न भवतीत्यत्रापि सामानाधिकरण्यप्रतीते र्नशब्दस्याभाववद्वाचकत्वाच्चेत्यर्थः । नन्वन्यशब्दार्थ एच क्वचिद् प्रतियोगिना निरूप्यते क्कचिदवधिना, यत्रावधिना स निरूप्यते तत्र पञ्चमी, शब्दशक्तिवैचित्र्यात् । यथा ग्रामादागत इत्यत्रागमनमवधिनिरूप्यं तत्र पञ्चमी, ग्रामस्यागमनवानयमित्यत्र च तदेव सम्बन्धि मात्र निरूव्यमिति न त पञ्चमी । मैवम् । शब्दश क्त्तिवैचित्र्यासिद्धेः । दृष्टान्ते नावधौ पञ्चमी किन्त्वपादाने । यदा

न्यायलीलावतीप्रकाशविवृतिः

न्योन्याश्रय इत्यत आह - यद्वेति । अवधितावच्छेदकप्रकारकावधिज्ञानमेव पृथक्त्ववीहेतुर्न त्ववधित्वेन ज्ञानमित्यर्थ: । नन्वेवं तत्रावधित्वानुभवो न स्यादित्यत आह -नारावारवदिति । तथा चावधित्वस्य पूर्वमप्रतीतेरपि पृथक्त्वप्रत्यय एव विषयत्वमिति भावः । एतच्च स्वरूपसम्बन्धविशेष एवावधित्वमित्यभिप्रेत्य, अन्यस्य समानसंवित्संवेद्यत्वाभावादित्यवधेयम् । केचित्तु पारावारवदित्यादिग्रन्थं पृथक्त्वेऽपि योजयन्ति । एतन्मते च पृथक्त्वात्यन्ताभाववत्वमेवा-


  1. नप्रतियोगे पञ्च०