पृष्ठम्:न्यायलीलावती.djvu/४५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८१
स्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


पकं चेदयमपरोऽवच्छेदभावाभावस्वभावो विरोधः ।

 अत्रोच्यते । वस्तुस्वभाववैचित्र्यात्संयोगस्य स्वाभावसमानदेशकालत्वात् । रक्तारक्तस्वभावः पटो यथा विज्ञानात्मकं [१]


न्यायलीलावतीकण्ठाभरणम्

वच्छिन्ने विरोध उक्तः स एवावच्छेदकेऽपीत्यर्थः । अयमिति । अवच्छेदकभावाभावसामानाधिकरण्यलक्षण इत्यर्थः । अवच्छेदके संयोगसत्त्वे गगने शब्दानुत्पत्तिप्रसङ्ग इत्यपि द्रष्टव्यम् ।

 वस्त्विति । अन्येषां स्वाभावासामानाधिकरण्येऽपि प्रतीतिबलात् संयोगे स्वाभावसामानाधिकरण्यमभ्युयेयम् । अन्यथा वस्तूनामेकस्वभावत्वे जगद्वैचित्र्यमेव भज्येतेत्यर्थः । स्वाभावसामानाधिकरण्यं स्फुटयति -- रक्तेति । अन्यथा महारजनसंयोगतदद्भावार्धानरक्तारक्तप्रतीत्यनुदय एव पटे स्यादित्यर्थः । क्षणिकविज्ञानवाद्यपि संयोगे विमत एवातन्मतेनाव्यविरोध इति द्योतनाय तदनुरूपमुदाहरति यथेति । स्वमते रक्तारक्तविषयं परमते रक्तारक्तस्वरूपं भेदे विषयविषयीभावो नास्त्येवातः सर्व ज्ञानं स्व (प्र?) काशमिति योगाचारमतमतः स एव विकल्प-

न्यायलीलावतीप्रकाशः

एवेति भावः । अयमिति । काशभिन्नेऽवच्छेदके संयोगसत्वेऽपि शब्दस्य तत्रानुत्पत्तिरित्यपि द्रष्टव्यम् ।

 वस्तुस्वभावति । भावाभावानान्तरयोर्मिथो वैयधिकररण्यनियमेऽपि संयोगतदत्यन्ताभावयोः प्रतीतिबलात्सामानाधिकरण्यमभ्युपेयम् । न ह्येकं वस्तु यत्स्वभावकं तत्स्वभावकं वस्त्वन्तरमपि, जगद्वैचित्र्य भङ्गापत्तेरित्यर्थः । यद्यपि 'क्षणभङ्गनिषेधा'दित्यनेन स्थिरवाह्यवाद्येव पूर्वपक्षी, तथापि यदि कदाचिद्विज्ञानवादमपि परोऽभ्युपगच्छेत्तदा तदनुरूपमुदाहरति — यथा विज्ञानमिति । स्वमते रक्तारक्तविषयं परमते तु रूपशब्दस्वरूपार्थः । ननु वाह्यपक्षे भेदग्रहसम्भवादयं दोषः सम्भवति विज्ञावादिनये तु तदसम्भवात् नायं दोष

न्यायलीलावतीप्रकाशविकृतिः

गात्यन्ताभावस्याधिकदेशत्वेनावच्छेकत्वादिति भावः । अर्द्धरक्ते


  1. विज्ञानमेकं रक्तारक्तपटरूपम् ।