पृष्ठम्:न्यायलीलावती.djvu/४५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८३
न्यायलीलावतीकण्ठाभरण सविवृतिप्रकाशाद्भिसिता


स्य भेदेऽप्येकत्व प्रतीतिरविद्यावशादिति चेत्तुल्यं ज्ञानेऽपि । ज्ञानानां भिन्नत्वेऽन्येनाऽन्यस्य वेदनात् [१] कथं रक्तारक्तप्रतीतिरिति चेन्न, अभेदेऽपि कथं रक्तारक्तप्रतीतिरिति तुल्यम् । अभिन्न [२]भेदावसायोऽविद्यावशादिति चेन्न, अनात्मनो [३] भेदस्याविद्यावशादप्यनुल्लेखात् । उल्लरेवे[ऽपि] वाऽनात्मनो भेदस्य [४]पारमाथिंकतापत्तेः । अभिन्नमेवानुभूतमरक्तव्यावृत्या रक्तं रक्तव्यावृत्त्या चारक्तमित्युच्यत इति चेन्न, रक्तव्यावृत्तस्यारक्तव्यावृ[त्त!]तानुपपत्तेः । अनुभवबलादेवमिति चेत्तुल्यं संयुक्तस्यासंयोगित्वेऽप्य-


न्यायलीलावतीकण्ठाभरणम्

शङ्कते — बाह्यस्येति । तुल्यमिति । रक्तारक्तप्रकारकमपि ज्ञानं भिन्नमेवाभिन्नत्वेन ज्ञानमाविद्यकमित्यर्थः । ननु भेदे ग्राह्यग्राहकभाव एव नास्ति तथा च भिन्नमेव ज्ञानं कथमभिन्नं प्रथतामिति शङ्कते-- ज्ञानानामिति । तर्हि ग्राह्यग्राहकाभेदेऽपि रक्तारक्तस्वाभाव्यमेकस्यैव कथं भवेदित्याहनेति । ननु रक्तारक्तत्वे विरुद्धे एव न भवतः किन्तु तयोरैक्यमेष, विरोधप्रतिभासस्त्वाविद्यक इति शङ्कते - अभिन्न इति । तर्हि ज्ञानस्यानात्मभेदः कथमविद्यायामपि भासतां त्वन्मते भेदे ग्राह्यग्राहकभावाभावादित्याह-नेति । उल्लेखे वेति । तन्मते यदुल्लिख्यते तत्परमार्थसाद (दे?) वेत्यर्थः । यदेव रक्तं तदेवारक्तं परन्तु व्यावृत्तिभेदाधीनं भेदप्रतिभासनमित्याह - अभिन्नमिति । वस्त्वभेदव्यावृत्त्योरपि न भेद इत्याह - नेति । ननु अनुभवो न पर्थ्यनुयोज्यः, तथा च विरोधम (व?) धूय यदेव रक्तं तदेवारक्तमगत्या अभ्युपेयमित्याह - अनुभवेति । तर्हि य एव संयुक्तः स एवासंयुक्त इति न विरोध इत्याह -तुल्यमिति । संयोगाभावस्यावच्छेदकवृत्त्यभ्युपगमे

न्यायलीलावतीप्रकाशः

च नैकधर्मिणि संयोगतदत्यन्ताभावावित्यर्थः । अभेदेऽपीति । मिथो विरुद्धरक्तत्वाभेदोऽप्येकत्र विरुद्ध इत्यर्थः । अनात्मन इति । अपारमार्थिकभेदेन पारमार्थिकविद्याया अभेदे तस्या अप्यपारमार्थिकतापत्तेः । यद् यत्र प्रकाशते तत्तस्यात्मेति योगाचारस्थितेरित्यर्थः। उल्लेखेति तद्दर्श ने उल्लेखस्यैव पारमार्थिकत्वादित्यर्थः । तुल्यमिति । संयोगतदभावयोर-


  1. ०स्यावेदनात क० ।
  2. ० भेदा० ।
  3. आत्मनो भे० ।
  4. मेदस्यापार० ।