पृष्ठम्:न्यायलीलावती.djvu/४५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८४
न्यायलीलावती

भेदबुद्धेरन्यथासिद्धत्वादविरोधात् [१]

 ननु च संयोगस्यैकत्र सदसत्वे रक्तारक्तस्वभावत्वेनैव पटोऽवसीयेत [२]न तु कदाचिद्रक्तत्वेनैवेति चेत्, न, रक्तावयवावच्छेदोपाधितिरस्कृतरक्तारक्तस्वभावत्वात् । तन्न, सयोगस्याव्याप्यवृत्तित्वादुपाधीनामपि रक्तारक्तस्वभावत्वे तिरस्कारकत्वव्याहते : [३] । किञ्चाभावस्य स्वप्रतियोगिसमानदेशकालत्वे स्वभावमात्र [४] विरोधादन्योन्याभावत्वप्रसङ्गः । मैवम् । संयोगस्य


न्यायलीलावतीकण्ठाभरणम्

संयोगस्यापि तथात्वं स्यादित्य प्रत्यक्षता संयोगस्य स्यादिति भावः ।

 सर्वरक्ताभिप्रायेणाह - नन्विति । भूयोऽवयवावच्छेदेन महारजनसंयोगात् स्वल्पावयवावच्छेदेन च तदभावात् सर्वरक्तप्रतीतिरित्याह – नेति । संयोगवृत्तौ य उपाधिर्वाच्यस्तत्रापि सयोगो न व्याप्य वर्त्तत इति कथं तेन सदभावस्तिरस्क्रियतामित्याह - तन्नेति । दूषणान्तरमाह - किश्चेति । अत्यन्ताभावस्यान्योन्याभावलक्षणाक्रान्तत्वादन्योन्याभावत्वमेव स्यादित्यर्थः । अत्रानुभवविरोध: स्यादित्याह-मैव-

न्यायलीलावतीप्रकाशः

नुभवविषयतयैकस्य शेषयितुमशक्यत्वात् तृतीयकोटेरभावात् । अवच्छेदेनाभावस्यान्यथासिद्धौ संयोगस्यापि तथात्वादप्रत्यक्षत्वापत्तेः समानदेशमित्यर्थः ।

 सर्वरक्तामिप्रायेणाह - ननु चेति । रक्तावयवेति । संयोगस्याव्याप्य स्थितौ रक्तत्वारक्तत्वनियमात् । तदप्रतीतिस्तु प्रचुरभामावच्छेदेन रजतद्रव्यसंयोगावच्छेदकोपाधितिरस्कृतत्वादित्यर्थः । संयोगस्येति । अन्यथाऽवच्छेद्यावच्छेदकयोर्विरोधादिति भावः । स्वभावविरोधादिति | संसर्गाभाव-

न्यायलीलावतीप्रकाशाववृतिः

भवत्येव रक्तारक्तप्रतीतिरत आह - सर्वरक्तेति । अन्यथाऽवच्छेद्येति । न हि पटनिष्ठसंयोगाभावेऽवच्छेद्ये तदवच्छेदकोऽव्यवयवो महारजनसं-


  1. संसर्गस्या संयोगित्वेऽपीत्यभेदबु । संयोगस्यासंयो० ।
  2. ०वस्थीयते ।
  3. स्वभावतेति रक्तारक्तत्वव्याहतेः ।
  4. स्वभावविरोधित्वाद० | स्वभावविरोधादिति प्रकाशधृतः पाठः ।