स्वाभावेन सह सादेश्यविरोधसाधकमानाभावात् । भावान्तराणां स्वाभाववैदेश्यनियमात् संयोगोऽपि तथेत्यऽवधार्यत
इति चेत्, सोऽयं भावजातीयस्य स्वाभाववैदेश्यनियमो व्यभिचारानुपलम्भमात्रेण वा सिद्ध्यति विपर्यये बाधकप्रमाणप्रवृत्तेर्वा ।
नाघः । तस्य नियमानियमसाधारणत्वात् [१]। नापरः[२]|
तद्भावात् । भावाभावयोः समानदेशकालत्वे भावाभावव्यवहारगोचरत्वं न स्यादिति चेत्, न, न हि वैदेश्यभिन्नकालतानिमित्तो
न्यायलीलावतीकण्ठाभरणम्
मिति । अनुभूयमानं संयोगस्य स्वाभावसादेश्यं कुतः प्रमाणात् ग्राह्यमित्यर्थः | भावान्तरवैधयिदनुभवोऽप्ययं कूटसाक्षी स्यादित्याहभावान्तराणामिति । तथा च यो यो भावः स स्वाभावसमानाधिकरण इति व्याप्तिबलात् संयोगोऽपि तथा स्यादिति भावः । एतादृश व्याप्तौ न प्रमाणमित्याह – सोऽयमिति । तस्येति । व्यभिचारानुपलम्भस्येत्यर्थः। पार्थिवत्वलौहलेख्यत्वयोरण्यापाततो व्यभिचारानुपलम्भादिति भावः । तदभावादिति | भावत्वाक्रान्तस्य स्वाभाववैदेश्यसाधकप्रमाणाभावादित्यर्थ: । ननु प्रमाणं माऽस्तु तर्क एव विपर्थ्यये बाघकोSस्तीत्याह -- भावाभावयोरिति । यदि संयोगः स्वाभावसमानाधिकरणः स्यात् भावो न स्यात्, संयोगाभावो यदि प्रतियोगिसमानदेशः स्यात् अभावो न स्यादित्यर्थः । विधिमुखप्रत्ययवैद्यत्वनिषेधमुख प्रत्ययवेद्यत्वाभ्यां संयोगतदभावयोर्भावत्वाभावत्वव्यवस्थितौ तर्कमूलभूतव्याप्तौ विपक्षबाधकाभाव इत्याह – न हीति । अनुभवबलात् भावा-
न्यायलीलावतीप्रकाशः
स्वभावविरोधादित्यर्थः । एतद्वाघकद्वयं किं संयोगतदभावयोर्मानान्तरसिद्धं विरोधमुपजीव्य यद्वैतत् स्वातन्त्र्येण तयोर्विरोधसाधकम् । आद्ये संयोगस्य स्वाभावेति । यद्यपि निरुपाधिसहचारग्रह एव व्याप्तिग्राहक इत्युक्तम् । तदनुकूलतर्काभावे नोपाध्युन्नयनात् तदभावानिश्चय इत्याशयेनाह - विपर्यय इति । न हीति । अन्योन्याभावतत्प्र-
न्यायलीलावतीप्रकाशविवृतिः
योग्येवेति । तथा च कथं तिरस्कारकत्वमिति भावः । इत्युक्तमिति ।