पृष्ठम्:न्यायलीलावती.djvu/४५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८६
न्यायलीलावती


भावाभावव्यवहारः, किन्तु भावाभावाकारव्यवहारयोग्यस्वरूपनिमित्तो घटतदन्योन्याभावयोरिवेत्यतोऽविशेषात् । तस्माद्भावान्तराणां स्वाभावसमानदेशका लत्वविरोधेऽपि संयोगादीनां स्वभाववैचित्र्यात्समान[देश] कालस्वाभावाविरुद्ध[देश] त्वमव्याव्यवृत्तित्वमाख्यायते । न च वस्त्वन्तरासाधारणमिदं रूपं संयोगादीनामसम्भावनीयम् । सर्ववस्तूनामसाधारणरूपोच्छेदप्रसङ्गात् । न चैवं रक्तेऽप्यवयवे रक्तारक्तप्रतीतिः । तददृश्यभागवृत्तित्वेन संयोगाभावस्याप्रतीतेः । न चैवं स्वप्रतियोगिना सह समानदेशकालत्वे संयोगाभावस्यान्योन्याभावत्वापत्तेः [१]


न्यायलीलावतीकण्ठाभरणम्

न्तरवैधर्म्म्यं संयोगतदभावयोः स्वीकार्य्यमित्युपसंहरति - तस्मादिति । भावान्तरवैधयिदनुभव एव तिरस्क्रियतामित्यत आह-- न चेति । ननूक्तमवच्छेदकेऽपि संयोगस्य व्याप्यवृत्तित्वात् न तिरस्कारकत्वमित्यत आह - न चैवमिति । अदृश्यभागावच्छेदेन पटे महारजनसंयोगाभावसत्वेन सर्वरक्ताप्रतीतिरित्यर्थः । अन्योन्याभावत्वमा शङ्गय निराकरोति – न चैवमिति । प्रतीतिबलादेव तयोर्भेदसिद्धिरित्यर्थः । पक्षा-

न्यायलीलावतीप्रकाशः

तियोगिनोस्तदभावाव्याप्तेश्चेत्यर्थः । तस्मादिति । नन्वेकत्रैकस्यैकदा भावाभावयोर्विरोधबलात्तत्प्रतीतिर्भ्रम एव कुतो न स्यात् । मैवम् । अवच्छेदभेदेन विरोधस्यैवाभावात् । येन प्रकारेणैकत्र धर्मिणि उपसंहारात्तयोर्विरोधस्ततोऽन्येनापि प्रकारेण यदि विरोधः स्यात्, तदोभयच्छेदप्रसङ्गः । रक्तेऽप्यवयव इति । तत्रापि रजतद्रव्यसंयोगस्याव्याव्यवृत्तित्वादित्यर्थः । तददृश्येति । अवयवस्यादृश्यभागे संयोगाभाववृत्तेस्तदग्रहात्तदग्रह इत्यर्थः । द्वितीयं पक्षमाशङ्कय निराकरोति - न चैव-

न्यायलीलावतीप्रकाशविवृतिः

तथा च न द्वितीयकल्पावकाश इति शेषः । द्वितीयमिति । यद्वैतदेवे


  1. पत्तिः ।